Triveni Stotram – त्रिवेणी स्तोत्रम्


मुक्तामयालङ्कृतमुद्रवेणी
भक्ताभयत्राणसुबद्धवेणी ।
मत्तालिगुञ्जन्मकरन्दवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ १ ॥

लोकत्रयैश्वर्यनिदानवेणी
तापत्रयोच्चाटनबद्धवेणी ।
धर्मार्थकामाकलनैकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ २ ॥

मुक्ताङ्गनामोहनसिद्धवेणी
भक्तान्तरानन्दसुबोधवेणी ।
वृत्त्यन्तरोद्वेगविवेकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३ ॥

दुग्धोदधिस्फूर्जसुभद्रवेणी
नीलाभ्रशोभाललिता च वेणी ।
स्वर्णप्रभाभासुरमध्यवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४ ॥

विश्वेश्वरोत्तुङ्गकपर्दिवेणी
विरिञ्चिविष्णुप्रणतैकवेणी ।
त्रयीपुराणा सुरसार्धवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ५ ॥

माङ्गल्यसम्पत्तिसमृद्धवेणी
मात्रान्तरन्यस्तनिदानवेणी ।
परम्परापातकहारिवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६ ॥

निमज्जदुन्मज्जमनुष्यवेणी
त्रयोदयोभाग्यविवेकवेणी ।
विमुक्तजन्माविभवैकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ७ ॥

सौन्दर्यवेणी सुरसार्धवेणी
माधुर्यवेणी महनीयवेणी ।
रत्नैकवेणी रमणीयवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ८ ॥

सारस्वताकारविघातवेणी
कालिन्दकन्यामयलक्ष्यवेणी ।
भागीरथीरूपमहेशवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ९ ॥

श्रीमद्भवानीभवनैकवेणी
लक्ष्मीसरस्वत्यभिमानवेणी ।
माता त्रिवेणी त्रयीरत्नवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ १० ॥

त्रिवेणीदशकं स्तोत्रम् प्रातर्नित्यं पठेन्नरः ।
तस्य वेणी प्रसन्ना स्याद्विष्णुलोकं स गच्छति ॥ ११ ॥

इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed