Sri Aditya Stavam – श्री आदित्य स्तवम् (मार्कण्डेयपुराणे)


ब्रह्मोवाच ।
नमस्ये यन्मयं सर्वमेतत्सर्वमयश्च यः ।
विश्वमूर्तिः परं‍ज्योतिर्यत्तद्ध्यायन्ति योगिनः ॥ १ ॥

य ऋङ्मयो यो यजुषां निधानं
साम्नां च यो योनिरचिन्त्यशक्तिः ।
त्रयीमयः स्थूलतयार्धमात्रा
परस्वरूपो गुणपारयोग्यः ॥ २ ॥

त्वां सर्वहेतुं परमं च वेद्य-
-माद्यं परं ज्योतिरवेद्यरूपम् ।
स्थूलं च देवात्मतया नमस्ये
भास्वन् तमाद्यं परमं परेभ्यः ॥ ३ ॥

सृष्टिं करोमि यदहं तवशक्तिराद्या
तत्प्रेरितो जलमहीपवनाग्निरूपाम् ।
तद्देवतादिविषयां प्रणवाद्यशेषां
नात्मेच्छया स्थितिलयावपि तद्वदेव ॥ ४ ॥

वह्निस्त्वमेव जलशोषणतः पृथिव्याः
सृष्टिं करोषि जगतां च तथाद्य पाकम् ।
व्यापी त्वमेव भगवन् गगनस्वरूपं
त्वं पञ्चधा जगदिदं परिपासि विश्वम् ॥ ५ ॥

यज्ञैर्यजन्ति परमात्मविदो भवन्तं
विष्णुस्वरूपमखिलेष्टिमयं विवस्वन् ।
ध्यायन्ति चापि यतयो नियतात्मचित्ताः
सर्वेश्वरं परममात्मविमुक्तिकामा ॥ ६ ॥

नमस्ते देवरूपाय यज्ञरूपाय ते नमः ।
परब्रह्मस्वरूपाय चिन्त्यमानाय योगिभिः ॥ ७ ॥

उपसंहर तेजो यत्तेजसः संहतिस्तव ।
सृष्टेर्विधाताय विभो सृष्टौ चाऽहं समुद्यतः ॥ ८ ॥

मार्कण्डेय उवाच ।
इत्येवं संस्तुतो भास्वान् ब्रह्मणा सर्गकर्तृणा ।
उपसंहृतवांस्तेजः परं स्वल्पमधारयत् ॥ ९ ॥

चकार च ततः सृष्टिं जगतः पद्मसम्भवः ।
तथा तेषु महाभागः पूर्वकल्पान्तरेषु वै ॥ १० ॥

देवासुरादीन्मर्त्यांश्च पश्वादीन्वृक्षवीरुधः ।
ससर्ज पूर्ववद्ब्रह्मा नरकांश्च महामुने ॥ ११ ॥

इति श्रीमार्कण्डेयपुराणे शततमोऽध्याये ब्रह्म कृत श्री आदित्य स्तवम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed