Thondaman Krutha Srinivasa Stuti – श्री श्रीनिवास स्तुतिः (तोण्डमान कृतम्)


राजोवाच ।
दर्शनात्तव गोविन्द नाधिकं वर्तते हरे ।
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १ ॥

मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन् नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २ ॥

अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३ ॥

कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४ ॥

जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६ ॥

ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ।
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७ ॥

अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८ ॥

नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९ ॥

अप्राकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यं अनन्तशिरसे नमः ॥ १० ॥

अनन्तबाहवे श्रीमन् अनन्ताय नमो नमः ।
सरीसृपगिरीशाय परब्रह्मन् नमो नमः ॥ ११ ॥

इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ।
विरराम महाराज राजेन्द्रो रणकोविदः ॥ १२ ॥

स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ।
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३ ॥

श्रीनिवास उवाच ।
राजन् अलमलं स्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४ ॥

तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १५ ॥

इति श्रीवेङ्कटाचलमाहात्म्ये तोण्डामनकृत श्रीनिवासस्तुतिः ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed