Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम्


यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं
सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चन्द्रबिम्बम् ।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १ ॥

रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् ।
कं कं कं कालपाशं धृक धृक धृकितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ २ ॥

लं लं लं लं वदन्तं लललल ललितं दीर्घजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ३ ॥

वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं
खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।
चं चं चं चलित्वाऽचल चल चलिताच्चालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४ ॥

शं शं शं शङ्खहस्तं शशिकरधवलं मोक्ष सम्पूर्ण तेजं
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।
यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं
अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ५ ॥

खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम् ।
हौं हौं हौङ्कारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं
वं वं वं वाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ६ ॥

सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं
पं पं पं पद्मनाभं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ७ ॥

हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्‍टहासं
नं नं नं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम् । [धं‍धं‍धं]
टं टं टं टङ्कारनादं त्रिदशलटलटं कामगर्वापहारं
भुं भुं भुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ८ ॥

इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो
निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।
नश्येद्धि व्याघ्रसर्पौ हुतवह सलिले राज्यशंसस्य शून्यं
सर्वा नश्यन्ति दूरं विपद इति भृशं चिन्तनात्सर्वसिद्धिम् ॥ ९ ॥

भैरवस्याष्टकमिदं षाण्मासं यः पठेन्नरः
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ १० ॥

सिन्दूरारुणगात्रं च सर्वजन्मविनिर्मितम् ।
मुकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ ११ ॥

नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥

इति तीक्ष्णदंष्ट्र कालभैरवाष्टकम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed