Sundarakanda Sarga (Chapter) 65 – सुन्दरकाण्ड पञ्चषष्टितमः सर्गः (६५)



॥ चूडामणिप्रदानम् ॥

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १ ॥

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।
प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ॥ २ ॥

रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।
रामे समनुरागं च यश्चायं समयः कृतः ॥ ३ ॥

एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ॥ ४ ॥

क्व सीता वर्तते देवी कथं च मयि वर्तते ।
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ५ ॥

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ६ ॥

श्रुत्वा तु वचनं तेषां हनुमान्मारुतात्मजः ।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ ७ ॥

उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।
समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम् ॥ ८ ॥

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।
तत्र लङ्केति नगरी रावणस्य दुरात्मनः ॥ ९ ॥

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
तत्र दृष्टा मया सीता रावणान्तःपुरे सती ॥ १० ॥

सं‍न्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।
दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ ११ ॥

राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।
दुःखमापद्यते देवी तवादुःखोचिता सती ॥ १२ ॥

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।
एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ १३ ॥

अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।
रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ १४ ॥

देवी कथञ्चित्काकुत्स्थ त्वन्मना मार्गिता मया ।
इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ ॥ १५ ॥

सा मया नरशार्दूल विश्वासमुपपादिता ।
ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ॥ १६ ॥

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।
नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥ १७ ॥

एवं मया महाभागा दृष्टा जनकनन्दिनी ।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ॥ १८ ॥

अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ॥ १९ ॥

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।
अखिलेनेह यद्दृष्टमिति मामाह जानकी ॥ २० ॥

अयं चास्मै प्रदातव्यो यत्नात्सुपरिरक्षितः ।
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ॥ २१ ॥

एष चूडामणिः श्रीमान्मया सुपरिरक्षितः ।
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ॥ २२ ॥

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।
एष निर्यातितः श्रीमान्मया ते वारिसम्भवः ॥ २३ ॥

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।
जीवितं धारयिष्यामि मासं दशरथात्मज ॥ २४ ॥

ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता ।
इति मामब्रवीत्सीता कृशाङ्गी वरवर्णिनी ॥ २५ ॥ [धर्मचारिणी]

रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।
एतदेव मयाख्यातं सर्वं राघव यद्यथा ।
सर्वथा सागरजले सन्तारः प्रविधीयताम् ॥ २६ ॥

तौ जाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्या-
-द्वाचा सम्पूर्णं वायुपुत्रः शशंस ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥

सुन्दरकाण्ड षट्षष्टितमः सर्गः (६६)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed