Sundarakanda Sarga (Chapter) 32 – सुन्दरकाण्ड द्वात्रिंशः सर्गः (३२)



॥ सीतावितर्कः ॥

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।
वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ॥ १ ॥

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।
फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ॥ २ ॥

[* साऽथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् । *]
मैथिली चिन्तयामास विस्मयं परमं गता ।
अहो भीममिदं रूपं वानरस्य दुरासदम् ॥ ३ ॥

दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।
विललाप भृशं सीता करुणं भयमोहिता ॥ ४ ॥

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ॥ ५ ॥

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् ।
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥ ६ ॥

सा वीक्षमाणा पृथुभुग्नवक्त्रं
शाखामृगेन्द्रस्य यथोक्तकारम् ।
ददर्श पिङ्गाधिपतेरमात्यं
वातात्मजं बुद्धिमतां वरिष्ठम् ॥ ७ ॥

सा तं समीक्ष्यैव भृशं विसञ्ज्ञा
गतासुकल्पेव बभूव सीता ।
चिरेण सञ्ज्ञां प्रतिलभ्य भूयो
विचिन्तयामास विशालनेत्रा ॥ ८ ॥

स्वप्ने मयाऽयं विकृतोऽद्य दृष्टः
शाखामृगः शास्त्रगणैर्निषिद्धः ।
स्वस्त्यस्तु रामाय सलक्ष्मणाय
तथा पितुर्मे जनकस्य राज्ञः ॥ ९ ॥

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा
शोकेन दुःखेन च पीडितायाः ।
सुखं हि मे नास्ति यतोऽस्मि हीना
तेनेन्दुपूर्णप्रतिमाननेन ॥ १० ॥

रामेति रामेति सदैव बुद्ध्या
विचिन्त्य वाचा ब्रुवती तमेव ।
तस्यानुरूपां च कथां तमर्थ-
-मेवं प्रपश्यामि तथा शृणोमि ॥ ११ ॥

अहं हि तस्याद्य मनोभवेन
सम्पीडिता तद्गतसर्वभावा ।
विचिन्तयन्ती सततं तमेव
तथैव पश्यामि तथा शृणोमि ॥ १२ ॥

मनोरथः स्यादिति चिन्तयामि
तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं
सुव्यक्तरूपश्च वदत्ययं माम् ॥ १३ ॥

नमोऽस्तु वाचस्पतये सवज्रिणे
स्वयम्भुवे चैव हुताशनाय च ।
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथाऽस्तु नान्यथा ॥ १४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥

सुन्दरकाण्ड त्रयस्त्रिंशः सर्गः (३३)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sundarakanda Sarga (Chapter) 32 – सुन्दरकाण्ड द्वात्रिंशः सर्गः (३२)



Leave a Reply

error: Not allowed