Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ त्रिजटास्वप्नः ॥
इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्छिताः ।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ १ ॥
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २ ॥
अद्येदानीं तवानार्ये सीते पापविनिश्चये ।
राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥ ३ ॥
सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।
राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ॥ ४ ॥
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५ ॥
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६ ॥
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः ।
सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥ ७ ॥
कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि ।
तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ॥ ८ ॥
उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ९ ॥
युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।
शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ १० ॥
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।
सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ॥ ११ ॥
रामेण सङ्गता सीता भास्करेण प्रभा यथा ।
राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ॥ १२ ॥
आरूढः शैलसङ्काशं चचार सहलक्ष्मणः ।
ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा ॥ १३ ॥
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ १४ ॥
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ।
भर्तुरङ्कात्समुत्पत्य ततः कमललोचना ॥ १५ ॥
चन्द्रसूर्यौ मया दृष्टा पाणिना परिमार्जती ।
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ॥ १६ ॥
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ।
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ॥ १७ ॥
इहोपयातः काकुत्स्थः सीतया सह भार्यया ।
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥ १८ ॥
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ १९ ॥
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः ॥ २० ॥ [भार्यया]
न हि रामो महातेजाः शोक्यो जेतुं सुरासुरैः ।
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ॥ २१ ॥
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः ॥ २२ ॥
विमानात्पुष्पकादद्य रावणः पतितो भुवि ।
कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ॥ २३ ॥
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ॥ २४ ॥
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ॥ २५ ॥
पतितोऽवाक्छिरा भूमौ गर्दभाद्भयमोहितः ।
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ॥ २६ ॥
उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु ।
दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम् ॥ २७ ॥
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ।
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥ २८ ॥
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।
एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः ॥ २९ ॥
रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः । [दृष्टा]
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ॥ ३० ॥
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ ३१ ॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ॥ ३२ ॥
आरुह्य शैलसङ्काशं मेघस्तनितनिःस्वनम् ।
चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ॥ ३३ ॥
चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ।
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ॥ ३४ ॥
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।
लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा ॥ ३५ ॥
सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ॥ ३६ ॥
दग्धा रामस्य दूतेन वानरेण तरस्विना ।
पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ॥ ३७ ॥
लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ॥ ३८ ॥
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।
अपगच्छत नश्यध्वं सीतामाप स राघवः ॥ ३९ ॥
घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ।
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ॥ ४० ॥
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ॥ ४१ ॥
अभियाचाम वैदेहीमेतद्धि मम रोचते ।
यस्यामेवंविधः स्वप्नो दुःखितायां प्रदृश्यते ॥ ४२ ॥
सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ॥ ४३ ॥
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ॥ ४४ ॥
अलमेषा परित्रातुं राक्षस्यो महातो भयात् ।
अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ॥ ४५ ॥
विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् ।
छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् ॥ ४६ ॥
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ॥ ४७ ॥
राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।
निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् ॥ ४८ ॥
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।
ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ॥ ४९ ॥
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।
वेपमानः सूचयति राघवं पुरतः स्थितम् ॥ ५० ॥
पक्षी च शाखानिलयः प्रहृष्टः
पुनः पुनश्चोत्तमसान्त्ववादी ।
सुस्वागतां वाचमुदीरयानः
पुनः पुनश्चोदयतीव हृष्टः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः सर्गः ॥ २७ ॥
सुन्दरकाण्ड अष्टाविंशः सर्गः(२८)>>
सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

