Sundarakanda Sarga (Chapter) 1 – सुन्दरकाण्ड प्रथम सर्गः (१)


॥ समुद्रलङ्घनम् ॥

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ।
समुदग्रशिरोग्रीवो गवां पतिरिवाऽऽबभौ ॥ २ ॥

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ ३ ॥

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् ।
मृगांश्च सुबाहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४ ॥

नीललोहितमाञ्जिष्ठपत्रवर्णैः सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ ५ ॥

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।
यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ ६ ॥

स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ७ ॥

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८ ॥

अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये ।
ततोऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९ ॥

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ १० ॥

निष्प्रमाणशरीरः सन् लिलङ्घयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११ ॥

स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ १२ ॥

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ १३ ॥

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ १४ ॥

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ १५ ॥

मुमोच च शिलाः शैलो विशालाः समनः शिलाः ।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६ ॥

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ १७ ॥

स महासत्त्वसन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ १८ ॥

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ १९ ॥

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।
जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ २० ॥

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ २१ ॥

भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २२ ॥

पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३ ॥

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २४ ॥

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २५ ॥

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ २६ ॥

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षाञ्चक्रुश्च पर्वतम् ॥ २७ ॥

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ २८ ॥

एष पर्वतसङ्काशो हनूमान्मारुतात्मजः ।
तितीर्षति महावेगः समुद्रं मकरालयम् ॥ २९ ॥

रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ ३० ॥

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ ॥

दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः ॥ ३२ ॥

आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम् ।
उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३३ ॥

तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३४ ॥

बाहू संस्तम्भयामास महापरिघसन्निभौ ।
ससाद च कपिः कट्यां चरणौ सञ्चुकोच च ॥ ३५ ॥

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ३६ ॥

मार्गमालोकयन्दूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ ॥

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ॥ ३८ ॥

वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ।
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ॥ ३९ ॥

गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ।
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ॥ ४० ॥

अनेनैव हि वेगेन गमिष्यामि सुरालयम् ।
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ॥ ४१ ॥

बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ।
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ॥ ४२ ॥

आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ।
एवमुक्त्वा तु हनूमान्वानरान्वानरोत्तमः ॥ ४३ ॥

उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४४ ॥

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४५ ॥

स मत्तकोयष्टिबकान्पादपान्पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४६ ॥

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ४७ ॥

तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८ ॥

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनूमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ४९ ॥

सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि ।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५० ॥

स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।
शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ ५१ ॥

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ५२ ॥

लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ५३ ॥

ताराचितमिवाकाशं प्रबभौ स महार्णवः ।
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥ ५४ ॥

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ।
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५५ ॥

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५६ ॥

पिबन्निव बभौ श्रीमान् सोर्मिमालं महार्णवम् । [चापि]
पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५७ ॥

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।
नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५८ ॥

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।
चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविवोदितौ ॥ ५९ ॥

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।
सन्ध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥ ६० ॥ [तत्सूर्य] ॥

लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ ६१ ॥

लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ।
व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६२ ॥

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।
महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६३ ॥

तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६४ ॥

खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ।
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६५ ॥

पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः ।
प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ६६ ॥

उपरिष्टाच्छरीरेण छायया चावगाढया ।
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ६७ ॥

यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ ६८ ॥

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणा ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ६९ ॥

कपिवातश्च बलवान्मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ७० ॥

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ ७१ ॥

मेरुमन्दरसङ्काशानुद्धतान्स महार्णवे ।
अतिक्रामन्महावेगस्तरङ्गान्गणयन्निव ॥ ७२ ॥

तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ ७३ ॥

तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७४ ॥

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ ७५ ॥

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतराऽभवत् ॥ ७६ ॥

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७७ ॥

शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ७८ ॥

येनासौ याति बलवान्वेगेन कपिकुञ्जरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ७९ ॥

आपाते पक्षिसङ्घानां पक्षिराज इवाबभौ । [व्रजन्]
हनूमान्मेघजालानि प्रकर्षन्मारुतो यथा ॥ ८० ॥

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८१ ॥

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८२ ॥

प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।
ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८३ ॥

तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८४ ॥

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ ८५ ॥

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ ८६ ॥

तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ८७ ॥

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ८८ ॥

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ ८९ ॥

तथा मया विधातव्यं विश्रमेत यथा कपिः ।
शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ॥ ९० ॥

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९१ ॥

त्वमिहासुरसङ्घानां पातालतलवासिनाम् ।
देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः ॥ ९२ ॥

त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ।
पातालस्याऽप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९९ ॥

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ।
तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ ९४ ॥

स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् । [उपैष्यति]
हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ ९५ ॥

अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ९६ ॥

कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ ९७ ॥

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ९८ ॥

चामीकरमहानाभ देवगन्धर्वसेवित ।
हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥ ९९ ॥

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ १०० ॥

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ १०१ ॥

स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ।
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०२ ॥

स महात्मा मुहूर्तेन पर्वतः सलिलावृतः ।
दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०३ ॥

शातकुम्भमयैः शृङ्गैः सकिन्नरमहोरगैः । [ंइभैः]
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ १०४ ॥

तप्तजाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ।
आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् ॥ १०५ ॥

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयम्प्रभैः ।
आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः ॥ १०६ ॥

तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ।
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १०७ ॥

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।
उरसा पातयामास जीमूतमिव मारुतः ॥ १०८ ॥

स तथा पातितस्तेन कपिना पर्वतोत्तमः ।
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ १०९ ॥

तमाकाशगतं वीरमाकाशे समुपस्थितः ।
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ॥ ११० ॥

मानुषं धारयन्रूपमात्मनः शिखरे स्थितः ।
दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ॥ १११ ॥

निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् ।
राघवस्य कुले जातैरुदधिः परिवर्धितः ॥ ११२ ॥

स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ।
कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥ ११३ ॥ ॥

सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ।
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ ११४ ॥

तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् । [कपि]
योजनानां शतं चापि कपिरेष समाप्लुतः ॥ ११५ ॥

तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ।
तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ॥ ११६ ॥

तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि । [विश्रम्य श्वो]
अस्माकमपि सम्बन्धः कपिमुख्य त्वयाऽस्ति वै ॥ ११७ ॥

प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ।
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ॥ ११८ ॥

तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ।
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥ ११९ ॥

धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ।
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ॥ १२० ॥

पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ।
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ॥ १२१ ॥

तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ।
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ॥ १२२ ॥

तेऽभिजग्मुर्दिशः सर्वा गरुडानिलवेगिनः । [ते हि]
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ॥ १२३ ॥

भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ।
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ॥ १२४ ॥

पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः ।
स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ॥ १२५ ॥

ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ।
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ॥ १२६ ॥

गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ।
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ॥ १२७ ॥

त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ।
अस्मिन्नेवं गते कार्ये सागरस्य ममैव च ॥ १२८ [तस्मिन्] ॥

प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ।
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ॥ १२९ ॥

प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ।
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ॥ १३० ॥

प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ।
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ॥ १३१ ॥

प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ।
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ॥ १३२ ॥

जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ।
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ॥ १३३ ॥

पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ।
अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ॥ १३४ ॥

पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ।
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ॥ १३५ ॥

वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ।
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ॥ १३६ ॥

प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ।
देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ॥ १३७ ॥

काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ।
उवाच वचनं धीमान्परितोषात्सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १३८ ॥

हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ १३९ ॥

साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४० ॥

रामस्यैष हि दूत्येन याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥ १४१ ॥

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १४२ ॥

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४३ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन्सूर्यसङ्काशां सुरसां नागमातरम् ॥ १४४ ॥

अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।
हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १४५ ॥

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःसमम् ॥ १४६ ॥

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ १४७ ॥

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ १४८ ॥

विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १४९ ॥

मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वा भक्षयिष्यामि प्रविशेदं ममाननम् ॥ १५० ॥

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ १५१ ॥

रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सहभ्रात्रा वैदेह्या चापि भार्यया ॥ १५२ ॥

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १५३ ॥

तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ १५४ ॥

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १५५ ॥

एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १५६ ॥

तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ १५७ ॥

प्रविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ १५८ ॥

व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ १५९ ॥

अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।
इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ १६० ॥

दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ॥ १६१ ॥

चकार सुरसाप्यास्यं विंशद्योजनमायतम् ।
तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ॥ १६२ ॥

हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ।
चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ १६३ ॥

बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः ।
चकार सुरसा वक्त्रं षष्टियोजनमायतम् ॥ १६४ ॥

तथैव हनुमान्वीरः सप्ततीयोजनोच्छ्रितः ।
चकार सुरसा वक्त्रमशीतीयोजनायतम् ॥ १६५ ॥

हनूमानचलप्रख्यो नवतीयोजनोच्छ्रितः ।
चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १६६ ॥

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ १६७ ॥

स सङ्क्षिप्यात्मनः कायं जीमूत इव मारुतिः ।
तस्मिन् मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः ॥ १६८ ॥

सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १६९ ॥

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ॥ १७० ॥

तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १७१ ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना ॥ १७२ ॥

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १७३ ॥

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ १७४ ॥

सेविते वारिधाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ १७५ ॥

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।
विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते ।
वज्राशनिसमाघातैः पावकैरुपशोभिते ॥ १७६ ॥

कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते ।
वहता हव्यमत्यर्थं सेविते चित्रभानुना ॥ । १७७ ॥

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ।
महर्षिगणगन्धर्वनागयक्षसमाकुले ॥ १७८ ॥

विविक्ते विमले विश्वे विश्वावसुनिषेविते
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ॥ १७९ ॥

विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ।
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ॥ १८० ॥

जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ १८१
[** अधिकपाठः –
हनूमान्मेघजालानि प्राकर्षन्मारुतो यथा ॥
कालागरुसवर्णानि रक्तपीतसितानि च ।
कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा ॥
**] ॥

प्रदृश्यमानः सर्वत्र हनूमान्मारुतात्मजः ।
भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ १८२ ॥

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ १८३ ॥

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत्सत्वं चिरस्य वशमागतम् ॥ १८४ ॥

इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ १८५ ॥

समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे ॥ १८६ ॥

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।
ददर्श स महत्सत्वमुत्थितं लवणाम्भसि ॥ १८७ ॥

तद्दृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ १८८ ॥

छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ॥ १८९ ॥

व्यवर्धत महाकायः प्रावृषीव बलाहकः ।
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ १९० ॥

वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ।
घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ १९१ ॥

स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ १९२ ॥

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ १९३ ॥

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ १९४ ॥

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनः सम्पातविक्रमः ॥ १९५ ॥

तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य हि । [च]
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ १९६ ॥

हृतहृत्सा हनुमता पपात विधुराम्भसि ।
स्वयम्भुवेव हनुमान् सृष्टस्तस्या निपातने ॥ १९७ ॥

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।
भूतान्याकाशचारीणी तमूचुः प्लवगोत्तमम् ॥ १९८ ॥

भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ १९९ ॥

यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥ २०० ॥

स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः ।
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ २०१ ॥

प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ।
योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ २०२ ॥

ददर्श च पतन्नेव विविधद्रुमभूषितम् ।
द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥ २०३ ॥

सागरं सागरानूपं सागरानूपजान् द्रुमान् ।
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ २०४ ॥

स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ।
निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ २०५ ॥

कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।
मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ २०६ ॥

ततः शरीरं सङ्क्षिप्य तन्महीधरसन्निभम् ।
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ २०७ ॥

तद्रूपमतिसङ्क्षिप्य हनुमान् प्रकृतौ स्थितः ।
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ २०८ ॥

स चारुनानाविधरूपधारी
परं समासाद्य समुद्रतीरम् ।
परैरशक्यः प्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः ॥ २०९ ॥

ततः स लम्बस्य गिरेः समृद्धे
विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनारिकेले
महाद्रिकूटप्रतिमो महात्मा ॥ २१० ॥

ततस्तु सम्प्राप्य समुद्रतीरं
समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्मिन्निपपात पर्वते
विधूय रूपं व्यथयन्मृगद्विजान् ॥ २११ ॥

स सागरं दानवपन्नगायुतं
बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा
ददर्श लङ्काममरावतीमिव ॥ २१२ ॥

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥

सुन्दरकाण्ड द्वितीय सर्गः (२) >>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed