Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्राह्मण्यै यो मङ्क्षु भिक्षान्नतोभू-
-त्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ १ ॥
आश्वास्याम्बां प्रव्रजन्नग्रजान्यः
कृत्वा स्वङ्गान् सञ्चचारार्यमान्यः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ २ ॥
सार्भा मर्तुं योद्यता स्त्रीस्तु तस्या
दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ३ ॥
राज्यं योऽदादाशु निर्णेजकाय
प्रीतो नत्या यः स्वगुप्त्यै नृकायः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ४ ॥
प्रेतं विप्रं जीवयित्वाऽस्तजूर्ति
यश्चक्रे दिक्शालिनीं स्वीयकीर्तिम् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ५ ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं श्रीपादश्रीवल्लभ स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.