Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विनियोगः –
अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्रीविष्णुः परमात्मा देवता अहं बीजं सोऽहं शक्तिः ओं ह्रीं कीलकं मम सर्वदेहरक्षणार्थं जपे विनियोगः ॥
ऋष्यादिन्यासः –
नारद ऋषये नमः मुखे ।
श्रीविष्णुपरमात्मदेवतायै नमः हृदये ।
अहं बीजं गुह्ये ।
सोऽहं शक्तिः पादयोः ।
ओं ह्रीं कीलकं पादाग्रे ।
ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः इति मन्त्रः ।
करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
अहम्बीजप्राणायामं मन्त्रत्रयेण कुर्यात् ।
अथ ध्यानम् ।
परं परस्मात् प्रकृतेरनादि-
-मेकं निविष्टं बहुधा गुहायाम् ।
सर्वालयं सर्वचराचरस्थं
नमामि विष्णुं जगदेकनाथम् ॥ १ ॥
अथ पञ्जर स्तोत्रम् ।
ओम् ॥ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् ।
उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ २ ॥
त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् ।
तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३ ॥
पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ ४ ॥
नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।
उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ ५ ॥
वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ ६ ॥
कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् ।
माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ ७ ॥
नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।
कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ ८ ॥
श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् ।
पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९ ॥
दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।
पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥ १० ॥
गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।
आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११ ॥
सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः ।
विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२ ॥
राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे ।
नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ १३ ॥
डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४ ॥
रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ १५ ॥
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ।
दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ १६ ॥
पन्थानं दुर्गमं रक्षे सर्वमेव जनार्दनः ।
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ १७ ॥
स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ १८ ॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९ ॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा ।
यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ २० ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ २१ ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ २२ ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २३ ॥
इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्री विष्णु पञ्जर स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

