Sri Vinayaka Stavaraja – श्री विनायक स्तवराजः


बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥ १ ॥

नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो ।
विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥ २ ॥

जय विघ्नेश्वर विभो विनायक महेश्वर ।
लम्बोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥ ३ ॥

महादेव जगत्स्वामिन् मूषिकारूढ शङ्कर ।
विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥ ४ ॥

कुञ्जरास्य सुराधीश महेश करुणानिधे ।
मातुलुङ्गधर स्वामिन् गदाचक्रसमन्वित ॥ ५ ॥

दशबाहो महाराज गजवक्त्र चतुर्भुज ।
शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे ॥ ६ ॥

शङ्खशूलसमायुक्त बीजापूरसमन्वित ।
इक्षुकार्मुकसम्युक्त पद्महस्त प्रसीद मे ॥ ७ ॥

नानाभरणसम्युक्त रत्नकुम्भकर प्रभो ।
सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥ ८ ॥

अनाथनाथ विश्वेश विघ्नसङ्घविनाशन ।
त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥ ९ ॥

त्रयीगुण महादेव पाहि मां सर्वपालक ।
अणिमादिगुणाधार लक्ष्मीश्रीविष्णुपूजित ॥ १० ॥

गौरीशङ्करसम्पूज्य जय त्वं गणनायक ।
रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥ ११ ॥

ऋद्ध्यामोदादिसंसेव्य महागणपते जय ।
शङ्खपद्मादिसंसेव्य निरालम्ब निरीश्वर ॥ १२ ॥

निष्कलङ्क निराधार पाहि मां नित्यमव्यय ।
अनाद्य जगतामाद्य पितामहसुपूजित ॥ १३ ॥

धूमकेतो गणाध्यक्ष महामूषकवाहन ।
अनन्तपरमानन्द जय विघ्नेश्वरेश्वर ॥ १४ ॥

रत्नसिंहासनासीन किरीटेन सुशोभित ।
परात्पर परेशान परपूरुष पाहि माम् ॥ १५ ॥

निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ ।
सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ १६ ॥

कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ १७ ॥

शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ १८ ॥

एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ १९ ॥

अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ २० ॥

सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ २१ ॥

इति श्रीरुद्रयामले श्रीविनायकस्तवराजः सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed