Sri Vidyaranya Ashtottara Shatanama Stotram – श्री विद्यारण्याष्टोत्तरशतनाम स्तोत्रम्



विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १ ॥

रामायणमहासप्तकोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २ ॥

विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्त्वार्थकोविदः ॥ ३ ॥

भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४ ॥

श्रीमत्कर्णाटराज्यश्रीसम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्‍टाभिषेककृत् ॥ ५ ॥

आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६ ॥

सर्वशास्त्रार्थतत्त्वज्ञो मन्त्रशास्त्राब्धिमन्थरः ।
विद्वन्मणिशिरश्श्लाघ्यबहुग्रन्थविधायकः ॥ ७ ॥

सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मार्तसदाचारसंस्थापनधुरन्धरः ॥ ८ ॥

वेदशास्त्रबहिर्भूतदुर्मताम्बोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥ ९ ॥

यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्ययोगविशारदः ॥ १० ॥

राजाधिराजसन्दोहपूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥ ११ ॥

तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥ १२ ॥

श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥ १३ ॥

निरन्तरशिवध्यानशोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥ १४ ॥

जितेन्द्रियस्सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तात्मा सुचरित्राढ्यस्सर्वभूतहितोत्सुकः ॥ १५ ॥

कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥ १६ ॥

तपोराशिर्ज्ञानराशिः कल्याणगुणवरिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौलिशिरोमणिः ॥ १७ ॥

शुद्धसत्त्वमयोधीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥ १८ ॥

गुणत्रयविभागज्ञस्सन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्ज्वलः ॥ १९ ॥

रुद्राक्षमालिकाधारी भस्मोद्धूलितदेहवान् ।
अक्षमालालसद्धस्तस्त्रिपुण्ड्राङ्कितमस्तकः ॥ २० ॥

धरासुरतपस्सम्पत्फलं शुभमहोदयः ।
चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकः ॥ २१ ॥

श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशानप्रपूजनपरायणः ॥ २२ ॥

शारदाम्बादिव्यपीठसपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥ २३ ॥

सुज्ञानसत्कृतजगल्लोकानन्दविधायकः ।
वाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥ २४ ॥

निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥ २५ ॥

गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥ २६ ॥

शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निग्रहानुग्रहप्रभुः ॥ २७ ॥

जगत्पूज्यस्सदानन्दस्साक्षाच्छङ्कररूपभृत् ।
महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणः ॥ २८ ॥

विद्यारण्यमहायोगि नम्नामष्टोत्तरं शतम् ।
यः पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥ २९ ॥

इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed