Sri Vidyaranya Ashtottara Shatanamavali – श्री विद्यारण्याष्टोत्तरशतनामावली



ओं विद्यारण्यमहायोगिने नमः ।
ओं महाविद्याप्रकाशकाय नमः ।
ओं श्रीविद्यानगरोद्धर्त्रे नमः ।
ओं विद्यारत्नमहोदधये नमः ।
ओं रामायणमहासप्तकोटिमन्त्रप्रकाशकाय नमः ।
ओं श्रीदेवीकरुणापूर्णाय नमः ।
ओं परिपूर्णमनोरथाय नमः ।
ओं विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकाय नमः ।
ओं वेदत्रयोल्लसद्भाष्यकर्त्रे नमः । ९

ओं तत्त्वार्थकोविदाय नमः ।
ओं भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभवे नमः ।
ओं वर्णाश्रमव्यवस्थात्रे नमः ।
ओं निगमागमसारविदे नमः ।
ओं श्रीमत्कर्णाटराज्यश्रीसंपत्सिंहासनप्रदाय नमः ।
ओं श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृते नमः ।
ओं आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकाय नमः ।
ओं सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृते नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः । १८

ओं मन्त्रशास्त्राब्धिमन्थराय नमः ।
ओं विद्वन्मणिशिरःश्लाघ्यबहुग्रन्थविधायकाय नमः ।
ओं सारस्वतसमुद्धर्त्रे नमः ।
ओं सारासारविचक्षणाय नमः ।
ओं श्रौतस्मार्तसदाचारसंस्थापनधुरन्धराय नमः ।
ओं वेदशास्त्रबहिर्भूतदुर्मतांबोधिशोषकाय नमः ।
ओं दुर्वादिगर्वदावाग्नये नमः ।
ओं प्रतिपक्षेभकेसरिणे नमः ।
ओं यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तराय नमः । २७

ओं अष्टाङ्गयोगनिष्णाताय नमः ।
ओं साङ्ख्ययोगविशारदाय नमः ।
ओं राजाधिराजसंदोहपूज्यमानपदांबुजाय नमः ।
ओं महावैभवसम्पन्नाय नमः ।
ओं औदार्यश्रीनिवासभुवे नमः ।
ओं तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकाय नमः ।
ओं महाभोगिने नमः ।
ओं महायोगिने नमः ।
ओं वैराग्यप्रथमाश्रयाय नमः । ३६

ओं श्रीमते नमः ।
ओं परमहंसादिसद्गुरवे नमः ।
ओं करुणानिधये नमः ।
ओं तपःप्रभावनिर्धूतदुर्वारकलिवैभवाय नमः ।
ओं निरंतरशिवध्यानशोषिताखिलकल्मषाय नमः ।
ओं निर्जितारातिषड्वर्गाय नमः ।
ओं दारिद्र्योन्मूलनक्षमाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं सत्यवादिने नमः । ४५

ओं सत्यसन्धाय नमः ।
ओं दृढव्रताय नमः ।
ओं शान्तात्मने नमः ।
ओं सुचरित्राढ्याय नमः ।
ओं सर्वभूतहितोत्सुकाय नमः ।
ओं कृतकृत्याय नमः ।
ओं धर्मशीलाय नमः ।
ओं दांताय नमः ।
ओं लोभविवर्जिताय नमः । ५४

ओं महाबुद्धये नमः ।
ओं महावीर्याय नमः ।
ओं महातेजसे नमः ।
ओं महामनसे नमः ।
ओं तपोराशये नमः ।
ओं ज्ञानराशये नमः ।
ओं कल्याणगुणवारिधये नमः ।
ओं नीतिशास्त्रसमुद्धर्त्रे नमः ।
ओं प्राज्ञमौलिशिरोमणये नमः । ६३

ओं शुद्धसत्त्वमयाय नमः ।
ओं धीराय नमः ।
ओं देशकालविभागविदे नमः ।
ओं अतीन्द्रियज्ञाननिधये नमः ।
ओं भूतभाव्यर्थकोविदाय नमः ।
ओं गुणत्रयविभागज्ञाय नमः ।
ओं सन्यासाश्रमदीक्षिताय नमः ।
ओं ज्ञानात्मकैकदण्डाढ्याय नमः ।
ओं कौसुंभवसनोज्ज्वलाय नमः । ७२

ओं रुद्राक्षमालिकाधारिणे नमः ।
ओं भस्मोद्धूलितदेहवते नमः ।
ओं अक्षमालालसद्धस्ताय नमः ।
ओं त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ओं धरासुरतपस्सम्पत्फलाय नमः ।
ओं शुभमहोदयाय नमः ।
ओं चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकाय नमः ।
ओं श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसाय नमः ।
ओं रत्नगर्भगणेशानप्रपूजनपरायणाय नमः । ८१

ओं शारदांबादिव्यपीठसपर्यातत्पराशयाय नमः ।
ओं अव्याजकरुणामूर्तये नमः ।
ओं प्रज्ञानिर्जितगीष्पतये नमः ।
ओं सुज्ञानसत्कृतजगते नमः ।
ओं लोकानन्दविधायकाय नमः ।
ओं वाणीविलासभवनाय नमः ।
ओं ब्रह्मानन्दैकलोलुपाय नमः ।
ओं निर्ममाय नमः ।
ओं निरहंकाराय नमः । ९०

ओं निरालस्याय नमः ।
ओं निराकुलाय नमः ।
ओं निश्चिंताय नमः ।
ओं नित्यसंतुष्टाय नमः ।
ओं नियतात्मने नमः ।
ओं निरामयाय नमः ।
ओं गुरुभूमण्डलाचार्याय नमः ।
ओं गुरुपीठप्रतिष्ठिताय नमः ।
ओं सर्वतन्त्रस्वतन्त्राय नमः । ९९

ओं यन्त्रमन्त्रविचक्षणाय नमः ।
ओं शिष्टेष्टफलदात्रे नमः ।
ओं दुष्टनिग्रहदीक्षिताय नमः ।
ओं प्रतिज्ञातार्थनिर्वोढ्रे नमः ।
ओं निग्रहानुग्रहप्रभवे नमः ।
ओं जगत्पूज्याय नमः ।
ओं सदानन्दाय नमः ।
ओं साक्षाच्छङ्कररूपभृते नमः ।
ओं महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणाय नमः । १०८


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed