Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातः स्मरामि रमया सह वेङ्कटेशं
मन्दस्मितं मुखसरोरुहकान्तिरम्यम् ।
माणिक्यकान्तिविलसन्मकुटोर्ध्वपुण्ड्रं
पद्माक्षलक्ष्यमणिकुण्डलमण्डिताङ्गम् ॥ १ ॥
प्रातर्भजामि कररम्यसुशङ्खचक्रं
भक्ताभयप्रदकटिस्थलदत्तपाणिम् ।
श्रीवत्सकौस्तुभलसन्मणिभूषणोद्यत्
पीताम्बरं मदनकोटिसुमोहनाङ्गम् ॥ २ ॥
प्रातर्नमामि परमात्मपदारविन्दं
आनन्दसान्द्रनिलयं मणिनूपुराढ्यम् ।
एतत्समस्तजगतामिति दर्शयन्तं
वैकुण्ठमत्र भजतां करपल्लवेन ॥ ३ ॥
श्लोकत्रयस्य पठनं दिनपूर्वकाले
दुस्स्वप्नदुश्शकुनदुर्भयपापशान्त्यै ।
नित्यं करोति मतिमान्परमात्मरूपं
श्रीवेङ्कटेशनिलयं व्रजति स्म योऽसौ ॥
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.