Sri Varahi Kavacham – श्री वाराही कवचम्



अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषिः, अनुष्टुप् छन्दः, श्रीवाराही देवता, ओं बीजं, ग्लौं शक्तिः, स्वाहेति कीलकं, मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥

ध्यानम् ।
ध्यात्वेन्द्रनीलवर्णाभां चन्द्रसूर्याग्निलोचनाम् ।
विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ १ ॥

ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम् ।
अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ २ ॥

एतैः समस्तैर्विविधं बिभ्रतीं मुसलं हलम् ।
पात्वा हिंस्रान् हि कवचं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥

पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् ।
वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ ४ ॥

नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।
घ्राणं मे रुन्धिनी पातु मुखं मे पातु जम्भिनी ॥ ५ ॥

पातु मे मोहिनी जिह्वां स्तम्भिनी कण्ठमादरात् ।
स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥ ६ ॥

सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।
नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥ ७ ॥

खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।
गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥ ८ ॥

चण्डोच्चण्डश्चोरुयुग्मं जानुनी शत्रुमर्दिनी ।
जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयोः ॥ ९ ॥

पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।
सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥ १० ॥

युक्तायुक्तस्थितं नित्यं सर्वपापात्प्रमुच्यते ।
सर्वे समर्थ्य सम्युक्तं भक्तरक्षणतत्परम् ॥ ११ ॥

समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।
सर्वशत्रुविनाशाय शूलिना निर्मितं पुरा ॥ १२ ॥

सर्वभक्तजनाश्रित्य सर्वविद्वेषसंहतिः ।
वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥ १३ ॥

तथा विधं भूतगणा न स्पृशन्ति कदाचन ।
आपदः शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥ १४ ॥

माता पुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।
तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥ १५ ॥

इति श्रीरुद्रयामलतन्त्रे श्री वाराही कवचम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed