Sri Adi Varahi Stotram – श्री आदिवाराही स्तोत्रम्


नमोऽस्तु देवी वाराहि जयैङ्कारस्वरूपिणि ।
जपित्वा भूमिरूपेण नमो भगवतः प्रिये ॥ १ ॥

जय क्रोडास्तु वाराहि देवी त्वां च नमाम्यहम् ।
जय वाराहि विश्वेशि मुख्यवाराहि ते नमः ॥ २ ॥

मुख्यवाराहि वन्दे त्वां अन्धे अन्धिनि ते नमः ।
सर्वदुष्टप्रदुष्टानां वाक्‍स्तम्भनकरी नमः ॥ ३ ॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।
रुन्धे रुन्धिनि वन्दे त्वां नमो देवी तु मोहिनी ॥ ४ ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तम्भकरी वन्दे चित्तस्तम्भनि ते नमः ॥ ५ ॥

चक्षुस्तम्भिनि त्वां मुख्यस्तम्भिनी ते नमो नमः ।
जगत् स्तम्भिनि वन्दे त्वां जिह्वस्तम्भनकारिणि ॥ ६ ॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरुते योऽग्नौ वाचात्मिके नमः ॥ ७ ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
होमात्मके फड्रूपेण जय आद्यानने शिवे ॥ ८ ॥

देहि मे सकलान् कामान् वाराहि जगदीश्वरी ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ९ ॥

इदमाद्यानना स्तोत्रं सर्वपापविनाशनम् ।
पठेद्यः सर्वदा भक्त्या पातकैर्मुच्यते तथा ॥ १० ॥

लभन्ते शत्रवो नाशं दुःखरोगापमृत्यवः ।
महदायुष्यमाप्नोति अलक्ष्मीर्नाशमाप्नुयात् ॥ ११ ॥

इति श्री आदिवाराही स्तोत्रम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed