Sri Varahi Devi Stavam – श्री वाराही देवि स्तवम्



श्री वाराही देवि स्तवं

ध्यानम् –
ऐङ्कारद्वयमध्यसंस्थित लसद्भूबीजवर्णात्मिकां
दुष्टारातिजनाक्षि वक्त्रकरपदस्तम्भिनीं जृम्भिणीम् ।
लोकान् मोहयन्तीं दृशा च महासादंष्ट्राकरालाकृतिं
वार्तालीं प्रणतोऽस्मि सन्ततमहं घोणिं रथोपस्थिताम् ॥

श्रीकिरिरथमध्यस्थां पोत्रिमुखीं चिद्घनैकसद्रूपाम् ।
हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् ॥ १ ॥

वाग्भवभूवागीशी बीजत्रयठार्णवैश्च सम्युक्ताम् ।
कवचास्त्रानलजायायतरूपां नौमि शुद्धवाराहीम् ॥ २ ॥

स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीम् ।
नतजनशुभकारिणीं श्रीकिरिवदनां नौमि सच्चिदानन्दाम् ॥ ३ ॥

पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् ।
अञ्चितमणिमयभूषां चिन्तितफलदां नमामि वाराहीम् ॥ ४ ॥

विघ्नापन्निर्मूलन विद्येशीं सर्वदुःखविनिहन्त्रीम् ।
सकलजगत्संस्तम्भनचतुरां श्रीस्तम्भिनीं कलये ॥ ५ ॥

दशवर्णरूपमनुवर विशदां तुरगाधिराजसंरूढाम् ।
शुभदां दिव्यजगत्त्रयवासिनीं सुखदायिनीं सदा कलये ॥ ६ ॥

उद्धत्रीक्ष्मां जलनिधि मग्नां दंष्ट्राग्रलग्नभूगोलाम् ।
भक्तनदिमोदमानां उन्मत्ताकार भैरवीं वन्दे ॥ ७ ॥

सप्तदशाक्षररूपां सप्तोदधिपीठमध्यगां दिव्याम् ।
भक्तार्तिनाशनिपुणां भवभयविध्वंसिनीं परां वन्दे ॥ ८ ॥

नीलतुरगाधिरूढां नीलाञ्चित वस्त्रभूषणोपेताम् ।
नीलाभां सर्वतिरस्करिणीं सम्भावये महामायाम् ॥ ९ ॥

सलसङ्ख्यमन्त्ररूपां विलसद्भूषां विचित्रवस्त्राढ्याम् ।
सुललिततन्वीं नीलां कलये पशुवर्ग मोहिनीं देवीम् ॥ १० ॥

वैरिकृतसकलभीकर कृत्याविध्वंसिनीं करालास्याम् ।
शत्रुगणभीमरूपां ध्याये त्वां श्रीकिरातवाराहीम् ॥ ११ ॥

चत्वारिंशद्वर्णकमनुरूपां सूर्यकोटिसङ्काशाम् ।
देवीं सिंहतुरङ्गां विविधायुधधारिणीं कीटीं नौमि ॥ १२ ॥

धूमाकारविकारां धूमानलसन्निभां सदा मत्ताम् ।
परिपन्थियूथहन्त्रीं वन्दे नित्यं च धूम्रवाराहीम् ॥ १३ ॥

वर्णचतुर्विंशतिकां मन्त्रेशीं समदमहिषपृष्ठस्थाम् ।
उग्रां विनीलदेहां ध्याये किरिवक्त्र देवतां नित्यम् ॥ १४ ॥

बिन्दुगणतात्मकोणां गजदलावृत्तत्रयात्मिकां दिव्याम् ।
सदनत्रयसंशोभित चक्रस्थां नौमि सिद्धवाराहीम् ॥ १५ ॥

वाराही स्तोत्रमेतद्यः प्रपठेद्भक्तिसम्युतः ।
स वै प्राप्नोति सततं सर्वसौख्यास्पदं पदम् ॥ १६ ॥

इति श्री वाराही देवि स्तवम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed