Sri Tripurasundari Dandakam – श्री त्रिपुरसुन्दरी दण्डकम्


जयति निजसुधाम्भः सम्भवा वाग्भवश्रीः
अथ सरस समुद्यत् कामतत्त्वानुभावा ।
तदनु परमधाम ध्यानसंलक्ष्य मोक्षा
रवि शशि शिखिरूपा त्रैपुरी मन्त्रशक्तिः ॥ १ ॥

जय जय जगदेकमातर्नमश्चन्द्र चूडेन्द्र सोपेन्द्र पद्मोद्भवोष्णांशु शीतांशु शिखि पवन यम धनद दनुजेन्द्रपति वरुणप्रमुख सकल सुर मुकुटमणि निचयकर निकर परिजनित पुर विविध रुचिरुचिर कुसुमचय बुद्धिलुब्ध भ्रमद्भ्रमरमाला निनादानुगत मञ्जुशिञ्जान मञ्जीरकल कनकमय किङ्किणी क्वाणयन् नृत्यदुद्दाम निभृतपदललित किङ्करालङ्कृत सुचङ्क्रमण लीले सुलीले, स्थलाम्भोज निभचरण नखरत्न कान्तिच्छलेन हरनयन हव्याशनप्रतिकृतानङ्ग विजयश्रिया असौ भवत्या भव इव शरणागतः पादमूले समालीन इवालक्ष्यते सुलक्ष्यते, ललित लावण्यतरु कन्दली सुभग जङ्घालते चिल्लते ॥ २ ॥

गलित कलधौत प्रभोरुद्युते सुद्युते विद्युदुद्योत माणिक्य बन्धोज्ज्वलानर्घ काञ्ची
कलापानुसम्यमित सुनितम्ब बिम्बस्थले सुस्थले ॥ ३ ॥

स्मरद्विरद परिरचित नवरोमराज्यङ्कुशे निरङ्कुशे ॥ ४ ॥

दक्षिणावर्त नाभिभ्रमत्रिवलितट परिलुठित ललित लावण्यरस सुरनिम्नगा भूषित सुमध्य देशे सुदेशे, स्फुरत्तार हारावली गगन गङ्गातरङ्ग व्रजालिङ्गितोत्तुङ्ग निबिडस्तन सौवर्ण
गिरिशिखर युग्मे अयुग्मे उमे ॥ ५ ॥

मुरारिकर कम्बुरेखानुगत कण्ठपीठे सुपीठे, लसत् सरल सविलास भुजयुगल परिहसित
नवकोमल मृणाले सुनाले ॥ ६ ॥

महार्हमणिवलयज मयूखचय मांसल करकमल नखरत्न किरणे जितरणे सुकरणे सुशरणे ॥ ७ ॥

स्फुरत् पद्मरागेन्द्र मणिकुण्डलोल्लसित कान्तिच्छटोच्छुरित गण्डस्थली रचित कस्तूरिका पत्ररेखा समुद्घात सुनासीर गाण्डीव शोभे सुशोभे ॥ ८ ॥

महासिद्ध गन्धर्वगण किन्नरी तुम्बुरु प्रमुख वररचित वरविविध पदमङ्गलानङ्ग सङ्गीत सुखश्रवण सम्पूर्णकर्णे जय स्वामिनि ॥ ९ ॥

शशि शकल सुगन्धि ताम्बूल परिपूर्णमुखि सुमुखि ॥ १० ॥

बालप्रवाल प्रभाधर दलोपान्त विश्रान्त दन्तद्युति द्योतिताशोक नवपल्लवासक्त शरदिन्दु करनिकर सान्द्रप्रभे सुप्रभे देवि ॥ ११ ॥

विश्वकर्मादि निर्माण विधि सूत्र सुस्पष्ट नासाग्र रेखे सुरेखे ॥ १२ ॥

कपोलतल कान्तिविभवेन न विभान्ति नश्यन्ति यान्ति धावन्ति तेजांसि च तमांसि च विमलतर तरलतर तारकानङ्ग लीला विलासोल्लसत् कर्णमूलान्त विश्रान्त विपुलेक्षणाक्षेप विक्षिप्त
रुचिरचित नवकुन्द नीलाम्बुजप्रकर परिभूषिताशावकाशे सुकाशे ॥ १३ ॥

चलद्भ्रूलता विजित कन्दर्पकोदण्ड भङ्गे सुभङ्गे ॥ १४ ॥

मिलन्मध्यमृगनाभिमय बिन्दुपद चन्द्रतिलकायमानेक्षणालङ्कृतार्धेन्दु रोचिल्ललाटे सुलाटे ॥ १५ ॥

लसद्वंशमणि जालकान्तरित वर चलत् कुन्तलान्तानुगत कुन्दमालानुषक्त भ्रमद्भ्रमर पङ्क्ते सुपङ्क्ते ॥ १६ ॥

वहद्बहल परिमल मनोहारि नवमालिका मल्लिका मालती केतकी चम्पकेन्दीवरोदार मन्दार मालानु सङ्ग्रथित धम्मिल्लमूर्धावनद्धेन्दु करसञ्चयोयं गगनतल सञ्चरोयं यशश्चत्र रूपः
सदा दृश्यते ते शिवे ॥ १७ ॥

यस्य मधुरस्मित ज्योतिषा पूर्णहरिणाङ्कलक्ष्मीः क्षणाक्षेप विक्षिप्यते तस्य मुखपुण्डरीकस्य कविभिः कदा कोपमा केन कस्मिन् कथं दीयते ॥ १८ ॥

स्फुट स्फटिक घटिताक्षसूत्र नक्षत्रचय चक्रपरिवर्तन विनोद सन्दर्शित निशासमयचारे सुचारे, महाज्ञानमय पुस्तकं हस्तपद्मे अत्र वामे दधत्या भवत्या तदा सुस्फुटं वाममार्गस्य सर्वोत्तमत्त्वं समुपदिष्यते ॥ १९ ॥

दिव्यमुखसौरभे योगपर्यङ्क बद्धासने सुवदने सुरसने सुदर्शने सुमदने सुहसने सुरेशि जननि तुभ्यं नमो जय जननि तुभ्यं नमो जय जननि तुभ्यं नमः ॥ २० ॥

अ इ उ ऋ लु* इति लघुतया तदनु दैर्घ्येण पञ्चैव योनिस्तथा वाग्भवं प्रणव औ बिन्दुरः, क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह ल इति सुबद्ध रुद्रात्मिकां अमृतकर किरणगण वर्षिणीं मातृकां उद्गिरन्ती हसन्ती लसन्ती वसन्ती तदा तत्र कमलवन भवनभूमौ भवन्ती भवभेदिनी भयभञ्जिनी सभूर्भुवःस्वर्भुवनमूर्ति भव्ये सुभव्ये सुकाव्ये ॥ २१ ॥

सुकृतिना येन सम्भाव्यसे तस्य जर्जरित जरसोविरजसोऽपि पुत्रीकृतार्कस्य सत्तर्क पदवाक्य आगम वेद वेदाङ्ग वेदान्त सिद्धान्त सौर शैवादि वैष्णव पुराणेतिहास स्मृति गारुड भूततन्त्र स्वरोदय ज्योतिषायुर्वेद नानाख्यान पातालशास्त्रार्थ मन्त्रशिक्षादिकं विविध विद्याकुलं लिखित पदगुम्फ सम्बन्ध रस सत्कान्ति सोदार भणित प्रबन्ध प्रभूतार्थ
समालङ्कृताशेष भाषा महाकाव्य लीलोदयासिद्धि रूपयाति सद्य अम्बिके ॥ २२ ॥

वाग्भवेनैकेन वाग्देवि वागीश्वरो जायते किन्नुकिल कामाक्षरेण सकृदुच्चरितेनैव तव साधको बाधको भवति भुवि सर्व शृङ्गारिणां तन्नयनपथ पतित नेत्रनीलोत्पला झटिति यदि
सिद्ध गन्धर्वगण सुन्दरी ललितवरविद्याधरी वा सुरीवामरीवा महीनाथनाथाङ्गना वा
ज्वलन्मदन शरनिकर दलित सङ्क्षोभिता निगडितेव ज्वलितेव स्खलितेव मुषितेव सम्पद्यते, शक्तिबीजैक सन्ध्यायिनां योगिनां भोगिनां वैनतेयायते दाहिनां अमृतमेघायते दुस्सहविषाणां निशानाथचूडायते ध्यायते धार्यते येनबीजत्रयं तस्यनाम्नैव पशुपाशमलपञ्जरं तृट्यति तदाज्ञया सिद्ध्यति च गुणाष्टकं भक्तिभाजां महाभैरवि कवलित सकलतत्त्वात्मिके सुस्वरूपे सुरूपे परिणतशिवायं त्वायि तदा कः परः शिष्यते, का क्रिया शिष्यते यदि त्वद्भक्तिहीनस्य तत्वस्य का अर्थक्रिया कारिता तदिति तस्मिन् विधौ तस्य किं धाम किं नाम किं कर्म किं शर्म किं नर्म किं वर्म किं धर्म का गतिः का रतिः का मतिः किं वर्जनीयं च ॥ २३ ॥

झटिति यदि सर्वशून्यान्तर्भूमौ निजेच्छा समुन्मेष समयं समासाद्य बालार्क कोट्यंशरूपा विगर्भीकृताशेष संसार बीजाऽनुबद्धासि कन्दं तदा त्वं अम्बिका गीयसे तदनु परिजनित कुटिलाग्र तेजोऽङ्कुरा जननि वामेति संस्तूयसे, ततः बद्ध सुस्पष्ट रेखा शिखा ज्येष्ठेति सम्भाव्यसे, सैव शृङ्गाटकाकारतां आगता तदा रौद्रीति विख्याप्यसे ॥ २४ ॥

ताश्च वामादिकास्वत् कलास्त्रीन् गुणान् सन्दधत्यः क्रिया ज्ञानचय वाञ्छा स्वरूपाः क्रमात् तामरसजन्म मधुमथन पुरवैरिणां बीजभावं भजन्त्यः सृजन्त्यस्त्रिभुवनं त्रिपुरसुन्दरी इति तेन सङ्कीर्त्यसे ॥ २५ ॥

तत्र शृङ्गाटपीठोल्लसत् कुण्डलाकार तेजो कुलात् प्रोल्लसन्ती सगन्धी शिवार्कं समास्कन्द्य चान्द्रं महामण्डलं द्रावयन्ती पिबन्ती सुधां कुलवधूः कुलं परित्यज्य परपुरुष कुलीनमवलम्ब्य विश्वं परिभ्राम्य सर्वस्वमाक्रम्य तेनैव मार्गेण निजकुलनिवासं समागत्य सन्तुष्यसीति प्रियः कः पतिः कः प्रभुः कोऽस्तु तेनैव जानीमहे हे महेशानि रमसे च कामेश्वरी कामगिर्यालयेऽनङ्गकुसुमादिभिः सेविता तदुपरि जालन्धरपीठे वज्रपीठेषु वज्रेश्वरी परिजनान्नटयसि पुनः पूर्णगिरिगह्वरे नग्नवसनार्चिते भगमालिनी विलससि देवि ज्वलन्ममदन शरनिकर मधु विकसित समद मधुकर कदम्ब विपिन विभवे भगवति
श्री त्रिपुरसुन्दरि श्री ओड्याणपीठे नमस्ते नमस्ते नमस्ते नमस्ते शिवे ॥ २६ ॥

इति श्रीत्रिपुरसुन्दरीचरण किङ्किणीशिञ्जितं
महाप्रणति दीपकं त्रिपुरसुन्दरीदण्डकम् ।
इमं भजति भक्तिमान् पठति यः सुधीः साधकः
स चाष्टगुण सम्पदां भवतु भाजनं सर्वदा ॥ २७ ॥

सौधाम्बुधावरुणपोत सुवर्णशैल
कादम्ब दिव्यवन मध्यम वर्णभूमौ ।
भास्वत् विचित्रमणि मण्डप दिव्यपीठ-
-मध्यस्थितां भुवनमातरमाश्रयामि ॥ २८ ॥

ब्रह्मेन्द्र रुद्र हरि चन्द्र सहस्ररश्मि-
-स्कन्द द्विपानन हुताशन वन्दितायै ।
वागीश्वरि त्रिभुवनेश्वरि विश्वमात-
-रन्तर्बहिश्च कृत संस्थितये नमस्ते ॥ २९ ॥

इति श्रीदीपकनाथसिद्ध विरचितं श्री त्रिपुरसुन्दरी दण्डकम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed