Sri Maha Ganapathi Moola Mantra – श्री महागणपति मूलमन्त्रः


अस्य श्रीमहागणपति महामन्त्रस्य गणक ऋषिः निचृद्गायत्री छन्दः महागणपतिर्देवता ओं गं बीजं स्वाहा शक्तिः ग्लौं कीलकं महागणपतिप्रीत्यर्थे जपे विनियोगः ।

करन्यासः –
ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं गीं तर्जनीभ्यां नमः ।
ह्रीं गूं मध्यमाभ्यां नमः ।
क्लीं गैं अनामिकाभ्यां नमः ।
ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
गं गः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं गां हृदयाय नमः ।
श्रीं गीं शिरसे स्वाहा ।
ह्रीं गूं शिखायै वषट् ।
क्लीं गैं कवचाय हुम् ।
ग्लौं गौं नेत्रत्रयाय वौषट् ।
गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्बन्धः ।

ध्यानम् –
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपमाघ्रापयामि ।
रं अग्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं अमृतोपहारं निवेदयामि ।

मूलमन्त्रः –
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।

हृदयादिन्यासः –
ओं गां हृदयाय नमः ।
श्रीं गीं शिरसे स्वाहा ।
ह्रीं गूं शिखायै वषट् ।
क्लीं गैं कवचाय हुम् ।
ग्लौं गौं नेत्रत्रयाय वौषट् ।
गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरों इति दिग्विमोकः ।

ध्यानम् –
बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल-
-व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मकं गन्धं समर्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्वात्मकं धूपमाघ्रापयामि ।
रं अग्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं अमृतोपहारं निवेदयामि ।

समर्पणं –
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ॥

ओं शान्तिः शान्तिः शान्तिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed