Sri Shukra Kavacham – श्री शुक्र कवचम्


अस्य श्रीशुक्रकवचस्तोत्रमहामन्त्रस्य भरद्वाज ऋषिः अनुष्टुप् छन्दः शुक्रो देवता अं बीजं गं शक्तिः वं कीलकं मम शुक्रग्रहप्रसाद सिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –
भां अङ्गुष्ठाभ्यां नमः ।
भीं तर्जनीभ्यां नमः ।
भूं मध्यमाभ्यां नमः ।
भैं अनामिकाभ्यां नमः ।
भौं कनिष्ठिकाभ्यां नमः ।
भः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –
भां हृदयाय नमः ।
भीं शिरसे स्वाहा ।
भूं शिखायै वषट् ।
भैं कवचाय हुम् ।
भौं नेत्रत्रयाय वौषट् ।
भः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ॥

ध्यानम् –
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थनिधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १ ॥

कवचम् –
शिरो मे भार्गवः पातु फालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २ ॥

पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
जिह्वा मे चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३ ॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४ ॥

कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५ ॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥

य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥

इति श्रीब्रह्माण्डपुराणे श्री शुक्र कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed