Sri Shiva Hrudayam – श्री शिव हृदयम्


अस्य श्री शिवहृदयस्तोत्र महामन्त्रस्य वामदेव ऋषिः पङ्क्त्यैश्छन्धः श्रीसाम्बसदाशिव देवताः ओं बीजं नमः शक्तिः शिवायेति कीलकं मम चतुर्वर्ग फलाप्तये श्रीसाम्बसदाशिव हृदय मन्त्र जपे विनियोगः ।

ऋष्यादिन्यासः ।
वामदेव ऋषिभ्यो नमः शिरसि । पङ्क्त्यैश्छन्दसे नमः मुखे । श्रीसाम्बसदाशिवाय देवतायै नमः हृदि । ओं बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । शिवायेति कीलकाय नमः नाभौ । विनियोगाय नमः इदि करसम्पुटे ।

करन्यासः ।
ओं सदाशिवाय अङ्गुष्ठाभ्यां नमः ।
नं गङ्गाधराय तर्जनीभ्यां नमः ।
मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।
शिं शूलपाणये अनामिकाभ्यां नमः ।
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः ।
यं उमापतये करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं सदाशिवाय हृदयाय नमः ।
नं गङ्गाधराय शिरसे स्वाहा ।
मं मृत्युञ्जयाय शिखायै वषट् ।
शिं शूलपाणये कवचाय हुम् ।
वां पिनाकपाणये नेत्रत्रयाय वौषट् ।
यं उमापतये अस्त्राय फट् ।
भूर्भुवस्सुवरोमितिदिग्भन्धः ।

ध्यानम् ।
वामाङ्कन्यस्त वामेतरकरकमलायास्तथा वामहस्त
न्यस्ता रक्तोत्पलायाः स्तनपरिविलसद्वामहस्त प्रियायाः ।
सर्वाकल्पाभिरामो धृत परशुः मृगाभीष्टदः काञ्चनाभः
ध्येयः पद्मासनस्थः स्मर ललितवपुः सम्पदे पार्वतीशः ॥

स्तोत्रम् ।
ओं प्रणवो मे शिरः पातु मायाबीजं शिखां मम ।
प्रासादो हृदयं पातु नमो नाभिं सदाऽवतु ॥ १ ॥

लिङ्गं मे शिवः पायादष्टार्णं सर्वसन्धिषु ।
धृवः पादयुगं पातु कटिं माया सदाऽवतु ॥ २ ॥

नमः शिवाय कण्ठं मे शिरो माया सदाऽवतु ।
शक्त्यष्टार्णः सदा पायादापादतलमस्तकम् ॥ ३ ॥

सर्वदिक्षु च वर्णव्याहृत् पञ्चार्णः पापनाशनः ।
वाग्बीजपूर्वः पञ्चार्णो वाचां सिद्धिं प्रयच्छतु ॥ ४ ॥

लक्ष्मीं दिशतु लक्ष्यार्थः कामाद्य काममिच्छतु ।
परापूर्वस्तु पञ्चार्णः परलोकं प्रयच्छतु ॥ ५ ॥

मोक्षं दिशतु ताराद्यः केवलं सर्वदाऽवतु ।
त्र्यक्षरी सहितः शम्भुः त्रिदिवं सम्प्रयच्छतु ॥ ६ ॥

सौभाग्य विद्या सहितः सौभाग्यं मे प्रयच्छतु ।
षोडशीसम्पुटतः शम्भुः सर्वदा मां प्ररक्षतु ॥ ७ ॥

एवं द्वादश भेदानि विद्यायाः सर्वदाऽवतु ।
सर्वमन्त्रस्वरूपश्च शिवः पायान्निरन्तरम् ॥ ८ ॥

यन्त्ररूपः शिवः पातु सर्वकालं महेश्वरः ।
शिवस्यपीठं मां पातु गुरुपीठस्य दक्षिणे ॥ ९ ॥

वामे गणपतिः पातु श्रीदुर्गा पुरतोऽवतु ।
क्षेत्रपालः पश्चिमे तु सदा पातु सरस्वती ॥ १० ॥

आधारशक्तिः कालाग्निरुद्रो माण्डूक सञ्ज्ञितः ।
आदिकूर्मो वराहश्च अनन्तः पृथिवी तथा ॥ ११ ॥

एतान्मां पातु पीठाधः स्थिताः सर्वत्र देवताः ।
महार्णवे जलमये मां पायादमृतार्णवः ॥ १२ ॥

रत्नद्वीपे च मां पातु सप्तद्वीपेश्वरः तथा ।
तथा हेमगिरिः पातु गिरिकानन भूमिषु ॥ १३ ॥

मां पातु नन्दनोद्यानं वापिकोद्यान भूमिषु ।
कल्पवृक्षः सदा पातु मम कल्पसहेतुषु ॥ १४ ॥

भूमौ मां पातु सर्वत्र सर्वदा मणिभूतलम् ।
गृहं मे पातु देवस्य रत्ननिर्मितमण्डपम् ॥ १५ ॥

आसने शयने चैव रत्नसिंहासनं तथा ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चाऽनुगच्छतु ॥ १६ ॥

अथाऽज्ञानमवैराग्यमनैश्वर्यं च नश्यतु ।
सत्त्वरजस्तमश्चैव गुणान् रक्षन्तु सर्वदा ॥ १७ ॥

मूलं विद्या तथा कन्दो नालं पद्मं च रक्षतु ।
पत्राणि मां सदा पातु केसराः कर्णिकाऽवतु ॥ १८ ॥

मण्डलेषु च मां पातु सोमसूर्याग्निमण्डलम् ।
आत्माऽत्मानं सदा पातु अन्तरात्मान्तरात्मकम् ॥ १९ ॥

पातु मां परमात्माऽपि ज्ञानात्मा परिरक्षतु ।
वामा ज्येष्ठा तथा श्रेष्ठा रौद्री काली तथैव च ॥ २० ॥

कलपूर्वा विकरणी बलपूर्वा तथैव च ।
बलप्रमथनी चापि सर्वभूतदमन्यथ ॥ २१ ॥

मनोन्मनी च नवमी एता मां पातु देवताः ।
योगपीठः सदा पातु शिवस्य परमस्य मे ॥ २२ ॥

श्रीशिवो मस्तकं पातु ब्रह्मरन्ध्रमुमाऽवतु ।
हृदयं हृदयं पातु शिरः पातु शिरो मम ॥ २३ ॥

शिखां शिखा सदा पातु कवचं कवचोऽवतु ।
नेत्रत्रयं पातु हस्तौ अस्त्रं च रक्षतु ॥ २४ ॥

ललाटं पातु हृल्लेखा गगनं नासिकाऽवतु ।
राका गण्डयुगं पातु ओष्ठौ पातु करालिकः ॥ २५ ॥

जिह्वां पातु महेष्वासो गायत्री मुखमण्डलम् ।
तालुमूलं तु सावित्री जिह्वामूलं सरस्वती ॥ २६ ॥

वृषध्वजः पातु कण्ठं क्षेत्रपालो भुजौ मम ।
चण्डीश्वरः पातु वक्षो दुर्गा कुक्षिं सदाऽवतु ॥ २७ ॥

स्कन्दो नाभिं सदा पातु नन्दी पातु कटिद्वयम् ।
पार्श्वौ विघ्नेश्वरः पातु पातु सेनापतिर्वलिम् ॥ २८ ॥

ब्राह्मीलिङ्गं सदा पायादसिताङ्गादिभैरवाः ।
रुरुभैरव युक्ता च गुदं पायान्महेश्वरः ॥ २९ ॥

चण्डयुक्ता च कौमारी चोरुयुग्मं च रक्षतु ।
वैष्णवी क्रोधसम्युक्ता जानुयुग्मं सदाऽवतु ॥ ३० ॥

उन्मत्तयुक्ता वाराही जङ्घायुग्मं प्ररक्षतु ।
कपालयुक्ता माहेन्द्री गुल्फौ मे परिरक्षतु ॥ ३१ ॥

चामुण्डा भीषणयुता पादपृष्ठे सदाऽवतु ।
संहारेणयुता लक्ष्मी रक्षेत् पादतले उभे ॥ ३२ ॥

पृथगष्टौ मातरस्तु नखान् रक्षन्तु सर्वदा ।
रक्षन्तु रोमकूपाणि असिताङ्गादिभैरवाः ॥ ३३ ॥

वज्रहस्तश्च मां पायादिन्द्रः पूर्वे च सर्वदा ।
आग्नेय्यां दिशि मां पातु शक्ति हस्तोऽनलो महान् ॥ ३४ ॥

दण्डहस्तो यमः पातु दक्षिणादिशि सर्वदा ।
निरृतिः खड्गहस्तश्च नैरृत्यां दिशि रक्षतु ॥ ३५ ॥

प्रतीच्यां वरुणः पातु पाशहस्तश्च मां सदा ।
वायव्यां दिशि मां पातु ध्वजहस्तः सदागतिः ॥ ३६ ॥

उदीच्यां तु कुबेरस्तु गदाहस्तः प्रतापवान् ।
शूलपाणिः शिवः पायादीशान्यां दिशि मां सदा ॥ ३७ ॥

कमण्डलुधरो ब्रह्मा ऊर्ध्वं मां परिरक्षतु ।
अधस्ताद्विष्णुरव्यक्तश्चक्रपाणिः सदाऽवतु ॥ ३८ ॥

ओं ह्रौं ईशानो मे शिरः पायात् ।
ओं ह्रैं मुखं तत्पुरुषोऽवतु ॥ ३९ ॥

ओं ह्रूं अघोरो हृदयं पातु ।
ओं ह्रीं वामदेवस्तु गुह्यकम् ॥ ४० ॥

ओं ह्रां सद्योजातस्तु मे पादौ ।
ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः पातु मे शिखाम् ॥ ४१ ॥

फलश्रुति ।
अनुक्तमपि यत् स्थानं तत्सर्वं शङ्करोऽवतु ।
इति मे कथितं नन्दिन् शिवस्य हृदयं परम् ॥ ४२ ॥

मन्त्रयन्त्रस्थ देवानां रक्षणात्मकमद्भुतम् ।
सहस्रावर्तनात्सिद्धिं प्राप्नुयान्मन्त्रवित्तमः ॥ ४३ ॥

शिवस्य हृदयेनैव नित्यं सप्ताभिमन्त्रितम् ।
तोयं पीत्वेप्सितां सिद्धिं मण्डलाल्लभते नरः ॥ ४४ ॥

वन्ध्या पुत्रवती भूयात् रोगी रोगात् विमुच्यते ।
चन्द्र सूर्यग्रहे नद्यां नाभिमात्रोदके स्थितः ॥ ४५ ॥

मोक्षान्तं प्रजेपेद्भक्त्या सर्वसिद्धीश्वरो भवेत् ।
रुद्रसङ्ख्या जपाद्रोगी नीरोगी जायते क्षणात् ॥ ४६ ॥

उपोषितः प्रदोषे च श्रावण्यां सोमवासरे ।
शिवं सम्पूज्य यत्नेन हृदयं तत्परो जपेत् ॥ ४७ ॥

कृत्रिमेषु च रोगेषु वातपित्तज्वरेषु च ।
त्रिसप्तमन्त्रितं तोयं पीत्वाऽरोग्यमवाप्नुयात् ॥ ४८ ॥

नित्यमष्टोत्तरशतं शिवस्य हृदयं जपेत् ।
मण्डलाल्लभते नन्दिन् सिद्धिदं नात्र संशयः ॥ ४९ ॥

किं बहूक्तेन नन्दीश शिवस्य हृदयस्य च ।
जपित्वातु महेशस्य वाहनत्वमवाप्स्यसि ॥ ५० ॥

इति श्रीलिङ्गपुराणे उत्तरभागे वामदेवनन्दीश्वरसंवादे शिवहृदयस्तोत्र निरूपणं नाम अष्टषष्टितमोध्यायः समाप्तः ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed