Sri Gnana Prasunambika Stotram – श्री ज्ञानप्रसूनाम्बिका स्तोत्रम्


माणिक्याञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकुचां मत्तेभकुम्भस्तनीम् ।
मौनिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥

श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥

कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥

भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥

वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शाङ्करीम् ।
विद्वेषिण्यभिरञ्जिनीं स्तुतिविभां वेदान्तवेद्यां शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥

नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचञ्चलघण्टिकाकलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥

मञ्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारद्रुममञ्जरीमधुझरीमाधुर्यखेलद्गिराम् ।
मातङ्गीं मधुरालसां करशुकां नीलालकालङ्कृतां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥

कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भोजासनवासवादिविनुतामर्धेन्दुभूषोज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥

कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां
गङ्गावर्तसमाननाभिकुहरां गाङ्गेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥

बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनी विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥

इति श्री ज्ञानप्रसूनाम्बिका स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed