Sri Renuka Stotram (Parashurama Kritam) – श्री रेणुका स्तोत्रम्



श्रीपरशुराम उवाच ।
ओं नमः परमानन्दे सर्वदेवमयी शुभे ।
अकारादिक्षकारान्तं मातृकामन्त्रमालिनी ॥ १ ॥

एकवीरे एकरूपे महारूपे अरूपिणी ।
अव्यक्ते व्यक्तिमापन्ने गुणातीते गुणात्मिके ॥ २ ॥

कमले कमलाभासे हृत्सत्प्रक्तर्णिकालये ।
नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणी ॥ ३ ॥

वीरमाता वीरवन्द्या योगिनी समरप्रिये ।
वेदमाता वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥ ४ ॥

राममातर्नमस्तुभ्यं नमस्त्रैलोक्यरूपिणी ।
मह्यादिके पञ्चभूता जमदग्निप्रिये शुभे ॥ ५ ॥

यैस्तु भक्त्या स्तुता ध्यात्वा अर्चयित्वा पिते शिवे ।
भोगमोक्षप्रदे देवि कामेश्वरि नमोऽस्तु ते ॥ ६ ॥

नमोऽस्तु ते निरालम्बे परमानन्दविग्रहे ।
पञ्चभूतात्मिके देवि भूतभावविवर्जिते ॥ ७ ॥

महारौद्रे महाकाये सृष्टिसंहारकारिणी ।
ब्रह्माण्डगोलकाकारे विश्वरूपे नमोऽस्तु ते ॥ ८ ॥

चतुर्भुजे खड्गहस्ते महाडमरुधारिणी ।
शिरःपात्रधरे देवि एकवीरे नमोऽस्तु ते ॥ ९ ॥

नीलाम्बरे नीलवर्णे मयूरपिच्छधारिणी ।
वनभिल्लधनुर्वामे दक्षिणे बाणधारिणी ॥ १० ॥

रौद्रकाये महाकाये सहस्रार्जुनभञ्जनी ।
एकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितम् ॥ ११ ॥

मृतधारापिबं देवि रुधिरं दैत्यदेहजम् ।
रक्तवर्णे रक्तदन्ते खड्गलाङ्गलधारिणी ॥ १२ ॥

वामहस्ते च खट्वाङ्गं डमरुं चैव दक्षिणे ।
प्रेतवाहनके देवि ऋषिपत्नी च देवते ॥ १३ ॥

एकवीरे महारौद्रे मालिनी विश्वभैरवी ।
योगिनी योगयुक्ता च महादेवी महेश्वरी ॥ १४ ॥

कामाक्षी भद्रकाली च हुङ्कारी त्रिपुरेश्वरी ।
रक्तवक्त्रे रक्तनेत्रे महात्रिपुरसुन्दरी ॥ १५ ॥

रेणुकासूनुयोगी च भक्तानामभयङ्करी ।
भोगलक्ष्मीर्योगलक्ष्मीर्दिव्यलक्ष्मीश्च सर्वदा ॥ १६ ॥

कालरात्रि महारात्रि मद्यमांसशिवप्रिये ।
भक्तानां श्रीपदे देवि लोकत्रयविमोहिनी ॥ १७ ॥

क्लीङ्कारी कामपीठे च ह्रीङ्कारी च प्रबोध्यता ।
श्रीङ्कारी च श्रिया देवि सिद्धलक्ष्मीश्च सुप्रभा ॥ १८ ॥

महालक्ष्मीश्च कौमारी कौबेरी सिंहवाहिनी ।
सिंहप्रेतासने देवि रौद्री क्रूरावतारिणी ॥ १९ ॥

दैत्यमारी कुमारी च रौद्रदैत्यनिपातिनी ।
त्रिनेत्रा श्वेतरूपा च सूर्यकोटिसमप्रभा ॥ २० ॥

खड्गिनी बाणहस्ता चारूढा महिषवाहिनी ।
महाकुण्डलिनी साक्षात् कङ्काली भुवनेश्वरी ॥ २१ ॥

कृत्तिवासा विष्णुरूपा हृदया देवतामया ।
देवमारुतमाता च भक्तमाता च शङ्करी ॥ २२ ॥

चतुर्भुजे चतुर्वक्त्रे स्वस्तिपद्मासनस्थिते ।
पञ्चवक्त्रा महागङ्गा गौरी शङ्करवल्लभा ॥ २३ ॥

कपालिनी देवमाता कामधेनुस्त्रयोगुणी ।
विद्या एकमहाविद्या श्मशानप्रेतवासिनी ॥ २४ ॥

देवत्रिगुणत्रैलोक्या जगत्त्रयविलोकिनी ।
रौद्रा वैतालि कङ्काली भवानी भववल्लभा ॥ २५ ॥

काली कपालिनी क्रोधा मातङ्गी वेणुधारिणी ।
रुद्रस्य न पराभूता रुद्रदेहार्धधारिणी ॥ २६ ॥

जया च विजया चैव अजया चापराजिता ।
रेणुकायै नमस्तेऽस्तु सिद्धदेव्यै नमो नमः ॥ २७ ॥

श्रियै देव्यै नमस्तेऽस्तु दीननाथे नमो नमः ।
जय त्वं देवदेवेशि सर्वदेवि नमोऽस्तु ते ॥ २८ ॥

देवदेवस्य जननि पञ्चप्राणप्रपूरिते ।
त्वत्प्रसादाय देवेशि देवाः क्रन्दन्ति विष्णवे ॥ २९ ॥

महाबले महारौद्रे सर्वदैत्यनिपातिनी ।
आधारा बुद्धिदा शक्तिः कुण्डली तन्तुरूपिणी ॥ ३० ॥

षट्चक्रमणे देवि योगिनि दिव्यरूपिणी ।
कामिका कामरक्ता च लोकत्रयविलोकिनी ॥ ३१ ॥

महानिद्रा मद्यनिद्रा मधुकैटभभञ्जिनी ।
भद्रकाली त्रिसन्ध्या च महाकाली कपालिनी ॥ ३२ ॥

रक्षिता सर्वभूतानां दैत्यानां च क्षयङ्करी ।
शरण्यं सर्वसत्त्वानां रक्ष त्वं परमेश्वरी ॥ ३३ ॥

त्वामाराधयते लोके तेषां राज्यं च भूतले ।
आषाढे कार्तिके चैव पूर्णे पूर्णचतुर्दशी ॥ ३४ ॥

आश्विने पौषमासे च कृत्वा पूजां प्रयत्नतः ।
गन्धपुष्पैश्च नैवेद्यैस्तोषितां पञ्चभिः सह ॥ ३५ ॥

यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ।
तत्त्वं मे वरदे देवि रक्ष मां परमेश्वरी ॥ ३६ ॥

तव वामाङ्कितं देवि रक्ष मे सकलेश्वरी ।
सर्वभूतोदये देवि प्रसाद वरदे शिवे ॥ ३७ ॥

श्रीदेव्युवाच ।
वरं ब्रूहि महाभाग राज्यं कुरु महीतले ।
मामाराध्यते लोके भयं क्वापि न विद्यते ॥ ३८ ॥

मम मार्गे च आयान्ती भीर्देवी मम सन्निधौ ।
अभार्यो लभते भार्यां निर्धनो लभते धनम् ॥ ३९ ॥

विद्यां पुत्रमवाप्नोति शत्रुनाशं च विन्दति ।
अपुत्रो लभते पुत्रान् बद्धो मुच्येत बन्धनात् ॥ ४० ॥

कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् ।
मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥ ४१ ॥

सर्वकार्याणि सिद्ध्यन्ति प्रसादान्मे न संशयः ।
सर्वकार्याण्यवाप्नोति दीर्घायुश्च लभेत्सुखी ॥ ४२ ॥

श्रीपरशुराम उवाच ।
अत्र स्थानेषु भवतां अभयं कुरु सर्वदा ।
यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ ४३ ॥

प्रयागे पुष्करे चैव गङ्गासागरसङ्गमे ।
स्नानं च लभते नित्यं नित्यं च चरणोदकम् ॥ ४४ ॥

इदं स्तोत्रम् पठेन्नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
सर्वान् कामानवाप्नोति प्राप्यते परमं पदम् ॥ ४५ ॥

इति श्रीवायुपुराणे परशुरामकृत श्रीरेणुकास्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed