Sri Varahi Anugraha Ashtakam – श्री वाराह्यनुग्रहाष्टकम्


ईश्वर उवाच ।
मातर्जगद्रचननाटकसूत्रधार-
-स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यमीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १ ॥

नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बितभवाम्बुनिधिर्यतोऽयत्
त्वन्नामसंस्मृतिरियं न नुनः स्तुतिस्ते ॥ २ ॥

त्वच्चिन्तनादरसमुल्लसदप्रमेया-
-ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
-मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३ ॥

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
-रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतो नतौ मम सदा प्रतिबिम्बिता त्वं
भूया भवानि भवनाशिनि भावये त्वाम् ॥ ४ ॥

लीलोद्धृतक्षितितलस्य वराहमूर्ते-
-र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य ॥ ५ ॥

त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-
-र्ये चिन्तयन्ति युवतीतनु मागलान्ताम् ।
चक्रायुधां त्रिनयनां वरपोतृवक्त्रां
तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६ ॥

त्वत्सेवनस्खलितपापचयस्य मात-
-र्मोक्षोऽपि यस्य न सतो गणनामुपैति ।
देवासुरोरगनृपूजितपादपीठः
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥ ७ ॥

किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम् ।
किं दुर्भरं त्वयि सकृत् स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ ८ ॥

इति श्री वाराह्यनुग्रहाष्टकम् ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed