Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥
विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोऽम्शुमान् ।
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥
द्वादशात्मा सप्तहयो भास्करो हस्करो खगः ।
सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥
त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः ।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४ ॥
द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः ।
छन्दोश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥ ५ ॥
एकचक्ररथो मित्रो मन्देहारिस्तमिस्रहा ।
दैत्यहा पापहर्ता च धर्मो धर्मप्रकाशकः ॥ ६ ॥
दोषघ्नः चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।
दिक्पतिः पद्मनीनाथः कुशेशयकरो हरिः ॥ ७ ॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चाण्डांशुः कश्यपात्मजः ।
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८ ॥
इति स्कन्दपुराणे काशीखण्डे श्री सूर्य सप्ततिनाम स्तोत्रम् ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.