Sri Ranganatha Ashtottara Shatanamavali – श्री रङ्गनाथाष्टोत्तरशतनामावली


ओं श्रीरङ्गशायिने नमः ।
ओं श्रीकान्ताय नमः ।
ओं श्रीप्रदाय नमः ।
ओं श्रितवत्सलाय नमः ।
ओं अनन्ताय नमः ।
ओं माधवाय नमः ।
ओं जेत्रे नमः ।
ओं जगन्नाथाय नमः ।
ओं जगद्गुरवे नमः । ९

ओं सुरवर्याय नमः ।
ओं सुराराध्याय नमः ।
ओं सुरराजानुजाय नमः ।
ओं प्रभवे नमः ।
ओं हरये नमः ।
ओं हतारये नमः ।
ओं विश्वेशाय नमः ।
ओं शाश्वताय नमः ।
ओं शम्भवे नमः । १८

ओं अव्ययाय नमः ।
ओं भक्तार्तिभञ्जनाय नमः ।
ओं वाग्मिने नमः ।
ओं वीराय नमः ।
ओं विख्यातकीर्तिमते नमः ।
ओं भास्कराय नमः ।
ओं शास्त्रतत्त्वज्ञाय नमः ।
ओं दैत्यशास्त्रे नमः ।
ओं अमरेश्वराय नमः । २७

ओं नारायणाय नमः ।
ओं नरहरये नमः ।
ओं नीरजाक्षाय नमः ।
ओं नरप्रियाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मकृते नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्माङ्गाय नमः ।
ओं ब्रह्मपूजिताय नमः । ३६

ओं कृष्णाय नमः ।
ओं कृतज्ञाय नमः ।
ओं गोविन्दाय नमः ।
ओं हृषीकेशाय नमः ।
ओं अघनाशनाय नमः ।
ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं जितारातये नमः ।
ओं सज्जनप्रियाय नमः । ४५

ओं ईश्वराय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं त्रिलोकेशाय नमः ।
ओं त्रय्यर्थाय नमः ।
ओं त्रिगुणात्मकाय नमः ।
ओं काकुत्स्थाय नमः ।
ओं कमलाकान्ताय नमः ।
ओं कालीयोरगमर्दनाय नमः ।
ओं कालाम्बुदश्यामलाङ्गाय नमः । ५४

ओं केशवाय नमः ।
ओं क्लेशनाशनाय नमः ।
ओं केशिप्रभञ्जनाय नमः ।
ओं कान्ताय नमः ।
ओं नन्दसूनवे नमः ।
ओं अरिन्दमाय नमः ।
ओं रुक्मिणीवल्लभाय नमः ।
ओं शौरये नमः ।
ओं बलभद्राय नमः । ६३

ओं बलानुजाय नमः ।
ओं दामोदराय नमः ।
ओं हृषीकेशाय नमः ।
ओं वामनाय नमः ।
ओं मधुसूदनाय नमः ।
ओं पूताय नमः ।
ओं पुण्यजनध्वंसिने नमः ।
ओं पुण्यश्लोकशिखामणये नमः ।
ओं आदिमूर्तये नमः । ७२

ओं दयामूर्तये नमः ।
ओं शान्तमूर्तये नमः ।
ओं अमूर्तिमते नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं पावनाय नमः ।
ओं पवनाय नमः ।
ओं विभवे नमः ।
ओं चन्द्राय नमः । ८१

ओं छन्दोमयाय नमः ।
ओं रामाय नमः ।
ओं संसाराम्बुधितारकाय नमः ।
ओं आदितेयाय नमः ।
ओं अच्युताय नमः ।
ओं भानवे नमः ।
ओं शङ्कराय नमः ।
ओं शिवाय नमः ।
ओं ऊर्जिताय नमः । ९०

ओं महेश्वराय नमः ।
ओं महायोगिने नमः ।
ओं महाशक्तये नमः ।
ओं महत्प्रियाय नमः ।
ओं दुर्जनध्वंसकाय नमः ।
ओं अशेषसज्जनोपास्तसत्फलाय नमः ।
ओं पक्षीन्द्रवाहनाय नमः ।
ओं अक्षोभ्याय नमः ।
ओं क्षीराब्धिशयनाय नमः । ९९

ओं विधवे नमः ।
ओं जनार्दनाय नमः ।
ओं जगद्धेतवे नमः ।
ओं जितमन्मथविग्रहाय नमः ।
ओं चक्रपाणये नमः ।
ओं शङ्खधारिणे नमः ।
ओं शार्ङ्गिणे नमः ।
ओं खड्गिने नमः ।
ओं गदाधराय नमः । १०८


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed