Sri Rama Stavaraja Stotram – श्रीराम स्तवराज स्तोत्रम्

अस्य श्रीरामचन्द्र स्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः । श्रीरामो देवता । अनुष्टुप् छन्दः । सीता बीजम् । हनुमान् शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥

सूत उवाच ।
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् ।
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १ ॥

युधिष्ठिर उवाच ।
भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद ।
किं तत्त्वं किं परं जाप्यं किं ध्यानम् मुक्तिसाधनम् ॥ २ ॥

श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ॥ ३ ॥

वेदव्यास उवाच ।
धर्मराज महाभाग शृणु वक्ष्यामि तत्त्वतः ॥ ४ ॥

यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम् ।
तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥ ५ ॥

श्रीरामेति परं जाप्यं तारकं ब्रह्मसञ्ज्ञकम् ।
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ६ ॥

श्रीराम रामेति जना ये जपन्ति च सर्वदा ।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ७ ॥

स्तवराजं पुरा प्रोक्तं नारदेन च धीमता ।
तत्सर्वं सम्प्रवक्ष्यामि हरिध्यानपुरःसरम् ॥ ८ ॥

तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् ।
दारिद्र्यदुःखशमनं सर्वसम्पत्करं शिवम् ॥ ९ ॥

विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् ।
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ १० ॥

अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे ।
स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ ११ ॥

तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम् ।
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ १२ ॥

पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् ।
कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥ १३ ॥

भानुकोटिप्रतीकाश किरीटेन विराजितम् ।
रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम् ॥ १४ ॥

रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १५ ॥

दिव्यरत्नसमायुक्तमुद्रिकाभिरलङ्कृतम् ।
राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १६ ॥

तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम् ।
कर्पूरागुरुकस्तूरीदिव्यगन्धानुलेपनम् ॥ १७ ॥

योगशास्त्रेष्वभिरतं योगेशं योगदायकम् ।
सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १८ ॥

विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः ।
योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ॥ १९ ॥

विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम् ।
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ २० ॥

रामं रघुवरं वीरं धनुर्वेदविशारदम् ।
मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ २१ ॥

सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् ।
कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम् ॥ २२ ॥

एवं सञ्चिन्तयन्विष्णुं यज्ज्योतिरमलं विभुम् ।
प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २३ ॥

सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् ।
कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम् ॥ २४ ॥

यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् ।
यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ २५ ॥

विज्ञानहेतुं विमलायताक्षं
प्रज्ञानरूपं स्वसुखैकहेतुम् ।
श्रीरामचन्द्रं हरिमादिदेवं
परात्परं राममहं भजामि ॥ २६ ॥

कविं पुराणं पुरुषं पुरस्ता-
-त्सनातनं योगिनमीशितारम् ।
अणोरणीयांसमनन्तवीर्यं
प्राणेश्वरं राममसौ ददर्श ॥ २७ ॥

नारद उवाच ।
नारायणं जगन्नाथमभिरामं जगत्पतिम् ।
कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २८ ॥

राजराजं रघुवरं कौसल्यानन्दवर्धनम् ।
भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम् ॥ २९ ॥

सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् ।
सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ ३० ॥

आदित्यं रविमीशानं घृणिं सूर्यमनामयम् ।
आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥ ३१ ॥

जामदग्निं तपोमूर्तिं रामं परशुधारिणम् ।
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३२ ॥

श्रीशार्ङ्गधारिणं रामं चिन्मयानन्दविग्रहम् ।
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३३ ॥

श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् ।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३४ ॥

वासुदेवं जगद्योनिमनादिनिधनं हरिम् ।
गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३५ ॥

गोगोपालपरीवारं गोपकन्यासमावृतम् ।
विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३६ ॥

गोगोपिकासमाकीर्णं वेणुवादनतत्परम् ।
कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥ ३७ ॥

मन्मथं मथुरानाथं माधवं मकरध्वजम् ।
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३८ ॥

भूतेशं भूपतिं भद्रं विभूतिं भूमिभूषणम् ।
सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३९ ॥

श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम् ।
चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ४० ॥

आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम् ।
भक्तिप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४१ ॥

कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् ।
सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ ४२ ॥

विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् ।
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४३ ॥

सत्यसन्धं जितक्रोधं शरणागतवत्सलम् ।
सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४४ ॥

दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् ।
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४५ ॥

नरवानरदेवैश्चसेवितं हनुमत्प्रियम् ।
शुद्धं सूक्ष्मं परं शान्तं तारकं ब्रह्मरूपिणम् ॥ ४६ ॥

सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् ।
सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४७ ॥

निरामयं निराभासं निरवद्यं निरञ्जनम् ।
नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४८ ॥

परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् ।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४९ ॥

सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् ।
नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ५० ॥

नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः ।
नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥ ५१ ॥

नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने ।
मायामयनिरासाय प्रपन्नजनसेविने ॥ ५२ ॥

वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥ ५३ ॥

उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते-
-ऽकामाय प्रमदामनोहरगुणग्रामाय रामात्मने ।
योगारूढमुनीन्द्रमानससरोहंसाय संसारवि-
-ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५४ ॥

भवोद्भवं वेदविदां वरिष्ठ-
-मादित्यचन्द्रानलसुप्रभावम् ।
सर्वात्मकं सर्वगतस्वरूपं
नमामि रामं तमसः परस्तात् ॥ ५५ ॥

निरञ्जनं निष्प्रतिमं निरीहं
निराश्रयं निष्कलमप्रपञ्चम् ।
नित्यं ध्रुवं निर्विषयस्वरूपं
निरन्तरं राममहं भजामि ॥ ५६ ॥

भवाब्धिपोतं भरताग्रजं तं
भक्तिप्रियं भानुकुलप्रदीपम् ।
भूतत्रिनाथं भुवनाधिपं तं
भजामि रामं भवरोगवैद्यम् ॥ ५७ ॥

सर्वाधिपत्यं समराङ्गधीरं
सत्यं चिदानन्दमयस्वरूपम् ।
सत्यं शिवं शान्तिमयं शरण्यं
सनातनं राममहं भजामि ॥ ५८ ॥

कार्यक्रियाकारणमप्रमेयं
कविं पुराणं कमलायताक्षम् ।
कुमारवेद्यं करुणामयं तं
कल्पद्रुमं राममहं भजामि ॥ ५९ ॥

त्रैलोक्यनाथं सरसीरुहाक्षं
दयानिधिं द्वन्द्वविनाशहेतुम् ।
महाबलं वेदनिधिं सुरेशं
सनातनं राममहं भजामि ॥ ६० ॥

वेदान्तवेद्यं कविमीशितार-
-मनादिमध्यान्तमचिन्त्यमाद्यम् ।
अगोचरं निर्मलमेकरूपं
नमामि रामं तमसः परस्तात् ॥ ६१ ॥

अशेषवेदात्मकमादिसञ्ज्ञ-
-मजं हरिं विष्णुमनन्तमाद्यम् ।
अपारसंवित्सुखमेकरूपं
परात्परं राममहं भजामि ॥ ६२ ॥

तत्त्वस्वरूपं पुरुषं पुराणं
स्वतेजसा पूरितविश्वमेकम् ।
राजाधिराजं रविमण्डलस्थं
विश्वेश्वरं राममहं भजामि ॥ ६३ ॥

लोकाभिरामं रघुवंशनाथं
हरिं चिदानन्दमयं मुकुन्दम् ।
अशेषविद्याधिपतिं कवीन्द्रं
नमामि रामं तमसः परस्तात् ॥ ६४ ॥

योगीन्द्रसङ्घैश्च सुसेव्यमानं
नारायणं निर्मलमादिदेवम् ।
नतोऽस्मि नित्यं जगदेकनाथ-
-मादित्यवर्णं तमसः परस्तात् ॥ ६५ ॥

विभूतिदं विश्वसृजं विरामं
राजेन्द्रमीशं रघुवंशनाथम् ।
अचिन्त्यमव्यक्तमनन्तमूर्तिं
ज्योतिर्मयं राममहं भजामि ॥ ६६ ॥

अशेषसंसारविहारहीन-
-मादित्यगं पूर्णसुखाभिरामम् ।
समस्तसाक्षिं तमसः परस्ता-
-न्नारायणं विष्णुमहं भजामि ॥ ६७ ॥

मुनीन्द्रगुह्यं परिपूर्णकामं
कलानिधिं कल्मषनाशहेतुम् ।
परात्परं यत्परमं पवित्रं
नमामि रामं महतो महान्तम् ॥ ६८ ॥

ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।
आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥ ६९ ॥

तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा ।
विप्रा वेदास्तथा यज्ञाः पुराणं धर्मसंहिताः ॥ ७० ॥

वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च ।
यक्षराक्षसगन्धर्वादिक्पाला दिग्गजादयः ॥ ७१ ॥

सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव ।
वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७२ ॥

तारकाः दश दिक् चैव त्वमेव रघुनन्दन ।
सप्तद्वीपाः समुद्राश्च नगाः नद्यस्तथा द्रुमाः ॥ ७३ ॥

स्थावराः जङ्गमाश्चैव त्वमेव रघुनायक ।
देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥ ७४ ॥

माता पिता तथा भ्राता त्वमेव रघुवल्लभ ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७५ ॥

त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम ।
त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किञ्चन ॥ ७६ ॥

शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७७ ॥

व्यास उवाच ।
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम् ।
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७८ ॥

नारद उवाच ।
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे ।
त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७९ ॥

धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम ।
अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ८० ॥

अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ।
अद्य मे सफलं कर्म त्वत्पादाम्भोजदर्शनात् ॥ ८१ ॥

अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ।
त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं देहि राघव ॥ ८२

ततः परमसम्प्रीतः स रामः प्राह नारदम् ।
मेघगम्भीरया वाचा धन्वी वीजितमन्मथः ॥ ८३ ॥

श्रीराम उवाच ।
मुनिवर्य महाभाग मुने त्विष्टं ददामि ते ।
यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति ॥ ८४ ॥

नारद उवाच ।
वरं न याचे रघुनाथ युष्म-
-त्पदाब्जभक्तिः सततं ममास्तु ।
इदं प्रियं नाथ वरं प्रयाच्छ
पुनः पुनस्त्वामिदमेव याचे ॥ ८५ ॥

व्यास उवाच ।
इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् ।
वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८६ ॥

अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा ।
अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८७ ॥

इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् ।
सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम् ॥ ८८ ॥

कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम् ।
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८९ ॥

यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।
ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ९० ॥

स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा ।
गोवधाद्युपपापानि अनृतात्सम्भवानि च ॥ ९१ ॥

सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः ।
मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९२ ॥

श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् ।
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९३ ॥

रामं सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते ।
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९४ ॥

श्रीरामचन्द्र रघुपुङ्गव राजवर्य
रजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र
दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९५ ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९६ ॥

रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं
सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम् ।
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९७ ॥

सकलगुणनिधानं योगिभिः स्तूयमानं
भुजविजितसमानं राक्षसेन्द्रादिमानम् ।
महितनृपभयानं सीतया शोभमानं
स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ ९८ ॥

रघुवर तव मूर्तिर्मामके मानसाब्जे
नरकगतिहरं ते नामधेयं मुखे मे ।
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे
भवजलनिधिमग्नं रक्ष मामार्तबन्धो ॥ ९९ ॥

रामरत्नमहं वन्दे चित्रकूटपतिं हरिम् ।
कौसल्याभक्तिसम्भूतं जानकीकण्ठभूषणम् ॥ १०० ॥

इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामस्तवराजस्तोत्रम् सम्पूर्णम् ।

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: