Sri Rama Sahasranamavali – श्री राम सहस्रनामावली


ओं राजीवलोचनाय नमः ।
ओं श्रीमते नमः ।
ओं श्रीरामाय नमः ।
ओं रघुपुङ्गवाय नमः ।
ओं रामभद्राय नमः ।
ओं सदाचाराय नमः ।
ओं राजेन्द्राय नमः ।
ओं जानकीपतये नमः ।
ओं अग्रगण्याय नमः ।
ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं परमेश्वराय नमः ।
ओं जनार्दनाय नमः ।
ओं जितामित्राय नमः ।
ओं परार्थैकप्रयोजनाय नमः ।
ओं विश्वामित्रप्रियाय नमः ।
ओं दान्ताय नमः ।
ओं शत्रुजिते नमः ।
ओं शत्रुतापनाय नमः ।
ओं सर्वज्ञाय नमः । २०

ओं सर्वदेवादये नमः ।
ओं शरण्याय नमः ।
ओं वालिमर्दनाय नमः ।
ओं ज्ञानभाव्याय नमः ।
ओं अपरिच्छेद्याय नमः ।
ओं वाग्मिने नमः ।
ओं सत्यव्रताय नमः ।
ओं शुचये नमः ।
ओं ज्ञानगम्याय नमः ।
ओं दृढप्रज्ञाय नमः ।
ओं खरध्वंसिने नमः ।
ओं प्रतापवते नमः ।
ओं द्युतिमते नमः ।
ओं आत्मवते नमः ।
ओं वीराय नमः ।
ओं जितक्रोधाय नमः ।
ओं अरिमर्दनाय नमः ।
ओं विश्वरूपाय नमः ।
ओं विशालाक्षाय नमः ।
ओं प्रभवे नमः । ४०

ओं परिवृढाय नमः ।
ओं दृढाय नमः ।
ओं ईशाय नमः ।
ओं खड्गधराय नमः ।
ओं श्रीमते नमः ।
ओं कौसलेयाय नमः ।
ओं अनसूयकाय नमः ।
ओं विपुलांसाय नमः ।
ओं महोरस्काय नमः ।
ओं परमेष्ठिने नमः ।
ओं परायणाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्यसन्धाय नमः ।
ओं गुरवे नमः ।
ओं परमधार्मिकाय नमः ।
ओं लोकज्ञाय नमः ।
ओं लोकवन्द्याय नमः ।
ओं लोकात्मने नमः ।
ओं लोककृते नमः ।
ओं परस्मै नमः । ६०

ओं अनादये नमः ।
ओं भगवते नमः ।
ओं सेव्याय नमः ।
ओं जितमायाय नमः ।
ओं रघूद्वहाय नमः ।
ओं रामाय नमः ।
ओं दयाकराय नमः ।
ओं दक्षाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वपावनाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं नीतिमते नमः ।
ओं गोप्त्रे नमः ।
ओं सर्वदेवमयाय नमः ।
ओं हरये नमः ।
ओं सुन्दराय नमः ।
ओं पीतवाससे नमः ।
ओं सूत्रकाराय नमः ।
ओं पुरातनाय नमः ।
ओं सौम्याय नमः । ८०

ओं महर्षये नमः ।
ओं कोदण्डिने नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वकोविदाय नमः ।
ओं कवये नमः ।
ओं सुग्रीववरदाय नमः ।
ओं सर्वपुण्याधिकप्रदाय नमः ।
ओं भव्याय नमः ।
ओं जितारिषड्वर्गाय नमः ।
ओं महोदाराय नमः ।
ओं अघनाशनाय नमः ।
ओं सुकीर्तये नमः ।
ओं आदिपुरुषाय नमः ।
ओं कान्ताय नमः ।
ओं पुण्यकृतागमाय नमः ।
ओं अकल्मषाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं सर्वावासाय नमः ।
ओं दुरासदाय नमः ।
ओं स्मितभाषिणे नमः । १००

ओं निवृत्तात्मने नमः ।
ओं स्मृतिमते नमः ।
ओं वीर्यवते नमः ।
ओं प्रभवे नमः ।
ओं धीराय नमः ।
ओं दान्ताय नमः ।
ओं घनश्यामाय नमः ।
ओं सर्वायुधविशारदाय नमः ।
ओं अध्यात्मयोगनिलयाय नमः ।
ओं सुमनसे नमः ।
ओं लक्ष्मणाग्रजाय नमः ।
ओं सर्वतीर्थमयाय नमः ।
ओं शूराय नमः ।
ओं सर्वयज्ञफलप्रदाय नमः ।
ओं यज्ञस्वरूपिणे नमः ।
ओं यज्ञेशाय नमः ।
ओं जरामरणवर्जिताय नमः ।
ओं वर्णाश्रमकराय नमः ।
ओं वर्णिने नमः ।
ओं शत्रुजिते नमः । १२०

ओं पुरुषोत्तमाय नमः ।
ओं विभीषणप्रतिष्ठात्रे नमः ।
ओं परमात्मने नमः ।
ओं परात्परस्मै नमः ।
ओं प्रमाणभूताय नमः ।
ओं दुर्ज्ञेयाय नमः ।
ओं पूर्णाय नमः ।
ओं परपुरञ्जयाय नमः ।
ओं अनन्तदृष्टये नमः ।
ओं आनन्दाय नमः ।
ओं धनुर्वेदाय नमः ।
ओं धनुर्धराय नमः ।
ओं गुणाकराय नमः ।
ओं गुणश्रेष्ठाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं अभिवन्द्याय नमः ।
ओं महाकायाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं विशारदाय नमः ।
ओं विनीतात्मने नमः । १४०

ओं वीतरागाय नमः ।
ओं तपस्वीशाय नमः ।
ओं जनेश्वराय नमः ।
ओं कल्याणप्रकृतये नमः ।
ओं कल्पाय नमः ।
ओं सर्वेशाय नमः ।
ओं सर्वकामदाय नमः ।
ओं अक्षयाय नमः ।
ओं पुरुषाय नमः ।
ओं साक्षिणे नमः ।
ओं केशवाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं महामायाय नमः ।
ओं विभीषणवरप्रदाय नमः ।
ओं आनन्दविग्रहाय नमः ।
ओं ज्योतिषे नमः ।
ओं हनुमत्प्रभवे नमः ।
ओं अव्ययाय नमः ।
ओं भ्राजिष्णवे नमः । १६०

ओं सहनाय नमः ।
ओं भोक्त्रे नमः ।
ओं सत्यवादिने नमः ।
ओं बहुश्रुताय नमः ।
ओं सुखदाय नमः ।
ओं कारणाय नमः ।
ओं कर्त्रे नमः ।
ओं भवबन्धविमोचनाय नमः ।
ओं देवचूडामणये नमः ।
ओं नेत्रे नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवर्धनाय नमः ।
ओं संसारोत्तारकाय नमः ।
ओं रामाय नमः ।
ओं सर्वदुःखविमोक्षकृते नमः ।
ओं विद्वत्तमाय नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वहर्त्रे नमः ।
ओं विश्वधृते [कृते] नमः ।
ओं नित्याय नमः । १८०

ओं नियतकल्याणाय नमः ।
ओं सीताशोकविनाशकृते नमः ।
ओं काकुत्स्थाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं विश्वामित्रभयापहाय नमः ।
ओं मारीचमथनाय नमः ।
ओं रामाय नमः ।
ओं विराधवधपण्डिताय नमः ।
ओं दुःस्वप्ननाशनाय नमः ।
ओं रम्याय नमः ।
ओं किरीटिने नमः ।
ओं त्रिदशाधिपाय नमः ।
ओं महाधनुषे नमः ।
ओं महाकायाय नमः ।
ओं भीमाय नमः ।
ओं भीमपराक्रमाय नमः ।
ओं तत्त्वस्वरूपिणे नमः ।
ओं तत्त्वज्ञाय नमः ।
ओं तत्त्ववादिने नमः ।
ओं सुविक्रमाय नमः । २००

ओं भूतात्मने नमः ।
ओं भूतकृते नमः ।
ओं स्वामिने नमः ।
ओं कालज्ञानिने नमः ।
ओं महापटवे नमः ।
ओं अनिर्विण्णाय नमः ।
ओं गुणग्राहिणे नमः ।
ओं निष्कलङ्काय नमः ।
ओं कलङ्कघ्ने नमः ।
ओं स्वभावभद्राय नमः ।
ओं शत्रुघ्नाय नमः ।
ओं केशवाय नमः ।
ओं स्थाणवे नमः ।
ओं ईश्वराय नमः ।
ओं भूतादये नमः ।
ओं शम्भवे नमः ।
ओं आदित्याय नमः ।
ओं स्थविष्ठाय नमः ।
ओं शाश्वताय नमः ।
ओं ध्रुवाय नमः । २२०

ओं कवचिने नमः ।
ओं कुण्डलिने नमः ।
ओं चक्रिणे नमः ।
ओं खड्गिने नमः ।
ओं भक्तजनप्रियाय नमः ।
ओं अमृत्यवे नमः ।
ओं जन्मरहिताय नमः ।
ओं सर्वजिते नमः ।
ओं सर्वगोचराय नमः ।
ओं अनुत्तमाय नमः ।
ओं अप्रमेयात्मने नमः ।
ओं सर्वादये नमः ।
ओं गुणसागराय नमः ।
ओं समाय नमः ।
ओं समात्मने नमः ।
ओं समगाय नमः ।
ओं जटामुकुटमण्डिताय नमः ।
ओं अजेयाय नमः ।
ओं सर्वभूतात्मने नमः ।
ओं विष्वक्सेनाय नमः । २४०

ओं महातपाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं महाबाहवे नमः ।
ओं अमृताय नमः ।
ओं वेदवित्तमाय नमः ।
ओं सहिष्णवे नमः ।
ओं सद्गतये नमः ।
ओं शास्त्रे नमः ।
ओं विश्वयोनये नमः ।
ओं महाद्युतये नमः ।
ओं अतीन्द्राय नमः ।
ओं ऊर्जिताय नमः ।
ओं प्रांशवे नमः ।
ओं उपेन्द्राय नमः ।
ओं वामनाय नमः ।
ओं बलिने नमः ।
ओं धनुर्वेदाय नमः ।
ओं विधात्रे नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्णवे नमः । २६०

ओं शङ्कराय नमः ।
ओं हंसाय नमः ।
ओं मरीचये नमः ।
ओं गोविन्दाय नमः ।
ओं रत्नगर्भाय नमः ।
ओं महामतये नमः ।
ओं व्यासाय नमः ।
ओं वाचस्पतये नमः ।
ओं सर्वदर्पितासुरमर्दनाय नमः ।
ओं जानकीवल्लभाय नमः ।
ओं पूज्याय नमः ।
ओं प्रकटाय नमः ।
ओं प्रीतिवर्धनाय नमः ।
ओं सम्भवाय नमः ।
ओं अतीन्द्रियाय नमः ।
ओं वेद्याय नमः ।
ओं अनिर्देशाय नमः ।
ओं जाम्बवत्प्रभवे नमः ।
ओं मदनाय नमः ।
ओं मथनाय नमः । २८०

ओं व्यापिने नमः ।
ओं विश्वरूपाय नमः ।
ओं निरञ्जनाय नमः ।
ओं नारायणाय नमः ।
ओं अग्रण्ये नमः ।
ओं साधवे नमः ।
ओं जटायुप्रीतिवर्धनाय नमः ।
ओं नैकरूपाय नमः ।
ओं जगन्नाथाय नमः ।
ओं सुरकार्यहिताय नमः ।
ओं स्वभुवे नमः ।
ओं जितक्रोधाय नमः ।
ओं जितारातये नमः ।
ओं प्लवगाधिपराज्यदाय नमः ।
ओं वसुदाय नमः ।
ओं सुभुजाय नमः ।
ओं नैकमायाय नमः ।
ओं भव्यप्रमोदनाय नमः ।
ओं चण्डांशवे नमः ।
ओं सिद्धिदाय नमः । ३००

ओं कल्पाय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं अगदाय नमः ।
ओं रोगहर्त्रे नमः ।
ओं मन्त्रज्ञाय नमः ।
ओं मन्त्रभावनाय नमः ।
ओं सौमित्रिवत्सलाय नमः ।
ओं धुर्याय नमः ।
ओं व्यक्ताव्यक्तस्वरूपधृते नमः ।
ओं वसिष्ठाय नमः ।
ओं ग्रामण्ये नमः ।
ओं श्रीमते नमः ।
ओं अनुकूलाय नमः ।
ओं प्रियंवदाय नमः ।
ओं अतुलाय नमः ।
ओं सात्त्विकाय नमः ।
ओं धीराय नमः ।
ओं शरासनविशारदाय नमः ।
ओं ज्येष्ठाय नमः ।
ओं सर्वगुणोपेताय नमः । ३२०

ओं शक्तिमते नमः ।
ओं ताटकान्तकाय नमः ।
ओं वैकुण्ठाय नमः ।
ओं प्राणिनां प्राणाय नमः ।
ओं कमठाय नमः ।
ओं कमलापतये नमः ।
ओं गोवर्धनधराय नमः ।
ओं मत्स्यरूपाय नमः ।
ओं कारुण्यसागराय नमः ।
ओं कुम्भकर्णप्रभेत्त्रे नमः ।
ओं गोपीगोपालसंवृताय नमः ।
ओं मायाविने नमः ।
ओं व्यापकाय नमः ।
ओं व्यापिने नमः ।
ओं रैणुकेयबलापहाय नमः ।
ओं पिनाकमथनाय नमः ।
ओं वन्द्याय नमः ।
ओं समर्थाय नमः ।
ओं गरुडध्वजाय नमः ।
ओं लोकत्रयाश्रयाय नमः । ३४०

ओं लोकचरिताय नमः ।
ओं भरताग्रजाय नमः ।
ओं श्रीधराय नमः ।
ओं सद्गतये नमः ।
ओं लोकसाक्षिणे नमः ।
ओं नारायणाय नमः ।
ओं बुधाय नमः ।
ओं मनोवेगिने नमः ।
ओं मनोरूपिणे नमः ।
ओं पूर्णाय नमः ।
ओं पुरुषपुङ्गवाय नमः ।
ओं यदुश्रेष्ठाय नमः ।
ओं यदुपतये नमः ।
ओं भूतावासाय नमः ।
ओं सुविक्रमाय नमः ।
ओं तेजोधराय नमः ।
ओं धराधाराय नमः ।
ओं चतुर्मूर्तये नमः ।
ओं महानिधये नमः ।
ओं चाणूरमर्दनाय नमः । ३६०

ओं दिव्याय नमः ।
ओं शान्ताय नमः ।
ओं भरतवन्दिताय नमः ।
ओं शब्दातिगाय नमः ।
ओं गभीरात्मने नमः ।
ओं कोमलाङ्गाय नमः ।
ओं प्रजागराय नमः ।
ओं लोकगर्भाय नमः ।
ओं शेषशायिने नमः ।
ओं क्षीराब्धिनिलयाय नमः ।
ओं अमलाय नमः ।
ओं आत्मयोनये नमः ।
ओं अदीनात्मने नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं अमृतांशवे नमः ।
ओं महागर्भाय नमः ।
ओं निवृत्तविषयस्पृहाय नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं मुनये नमः । ३८०

ओं साक्षिणे नमः ।
ओं विहायसगतये नमः ।
ओं कृतिने नमः ।
ओं पर्जन्याय नमः ।
ओं कुमुदाय नमः ।
ओं भूतावासाय नमः ।
ओं कमललोचनाय नमः ।
ओं श्रीवत्सवक्षसे नमः ।
ओं श्रीवासाय नमः ।
ओं वीरघ्ने नमः ।
ओं लक्ष्मणाग्रजाय नमः ।
ओं लोकाभिरामाय नमः ।
ओं लोकारिमर्दनाय नमः ।
ओं सेवकप्रियाय नमः ।
ओं सनातनतमाय नमः ।
ओं मेघश्यामलाय नमः ।
ओं राक्षसान्तकृते नमः ।
ओं दिव्यायुधधराय नमः ।
ओं श्रीमते नमः ।
ओं अप्रमेयाय नमः । ४००

ओं जितेन्द्रियाय नमः ।
ओं भूदेववन्द्याय नमः ।
ओं जनकप्रियकृते नमः ।
ओं प्रपितामहाय नमः ।
ओं उत्तमाय नमः ।
ओं सात्त्विकाय नमः ।
ओं सत्याय नमः ।
ओं सत्यसन्धाय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं सुव्रताय नमः ।
ओं सुलभाय नमः ।
ओं सूक्ष्माय नमः ।
ओं सुघोषाय नमः ।
ओं सुखदाय नमः ।
ओं सुधिये नमः ।
ओं दामोदराय नमः ।
ओं अच्युताय नमः ।
ओं शार्ङ्गिणे नमः ।
ओं वामनाय नमः ।
ओं मधुराधिपाय नमः । ४२०

ओं देवकीनन्दनाय नमः ।
ओं शौरये नमः ।
ओं शूराय नमः ।
ओं कैटभमर्दनाय नमः ।
ओं सप्ततालप्रभेत्त्रे नमः ।
ओं मित्रवंशप्रवर्धनाय नमः ।
ओं कालस्वरूपिणे नमः ।
ओं कालात्मने नमः ।
ओं कालाय नमः ।
ओं कल्याणदाय नमः ।
ओं कवये नमः ।
ओं संवत्सराय नमः ।
ओं ऋतवे नमः ।
ओं पक्षाय नमः ।
ओं अयनाय नमः ।
ओं दिवसाय नमः ।
ओं युगाय नमः ।
ओं स्तव्याय नमः ।
ओं विविक्ताय नमः ।
ओं निर्लेपाय नमः । ४४०

ओं सर्वव्यापिने नमः ।
ओं निराकुलाय नमः ।
ओं अनादिनिधनाय नमः ।
ओं सर्वलोकपूज्याय नमः ।
ओं निरामयाय नमः ।
ओं रसाय नमः ।
ओं रसज्ञाय नमः ।
ओं सारज्ञाय नमः ।
ओं लोकसाराय नमः ।
ओं रसात्मकाय नमः ।
ओं सर्वदुःखातिगाय नमः ।
ओं विद्याराशये नमः ।
ओं परमगोचराय नमः ।
ओं शेषाय नमः ।
ओं विशेषाय नमः ।
ओं विगतकल्मषाय नमः ।
ओं रघुनायकाय नमः ।
ओं वर्णश्रेष्ठाय नमः ।
ओं वर्णवाह्याय नमः ।
ओं वर्ण्याय नमः । ४६०

ओं वर्ण्यगुणोज्ज्वलाय नमः ।
ओं कर्मसाक्षिणे नमः ।
ओं अमरश्रेष्ठाय नमः ।
ओं देवदेवाय नमः ।
ओं सुखप्रदाय नमः ।
ओं देवाधिदेवाय नमः ।
ओं देवर्षये नमः ।
ओं देवासुरनमस्कृताय नमः ।
ओं सर्वदेवमयाय नमः ।
ओं चक्रिणे नमः ।
ओं शार्ङ्गपाणये नमः ।
ओं रघूत्तमाय नमः ।
ओं मनसे नमः ।
ओं बुद्धये नमः ।
ओं अहङ्काराय नमः ।
ओं प्रकृत्यै नमः ।
ओं पुरुषाय नमः ।
ओं अव्ययाय नमः ।
ओं अहल्यापावनाय नमः ।
ओं स्वामिने नमः । ४८०

ओं पितृभक्ताय नमः ।
ओं वरप्रदाय नमः ।
ओं न्यायाय नमः ।
ओं न्यायिने नमः ।
ओं नयिने नमः ।
ओं श्रीमते नमः ।
ओं नयाय नमः ।
ओं नगधराय नमः ।
ओं ध्रुवाय नमः ।
ओं लक्ष्मीविश्वम्भराभर्त्रे नमः ।
ओं देवेन्द्राय नमः ।
ओं बलिमर्दनाय नमः ।
ओं वाणारिमर्दनाय नमः ।
ओं यज्वने नमः ।
ओं अनुत्तमाय नमः ।
ओं मुनिसेविताय नमः ।
ओं देवाग्रणये नमः ।
ओं शिवध्यानतत्पराय नमः ।
ओं परमाय नमः ।
ओं परस्मै नमः । ५००

ओं सामगेयाय नमः ।
ओं प्रियाय नमः ।
ओं अक्रूराय नमः ।
ओं पुण्यकीर्तये नमः ।
ओं सुलोचनाय नमः ।
ओं पुण्याय नमः ।
ओं पुण्याधिकाय नमः ।
ओं पूर्वस्मै नमः ।
ओं पूर्णाय नमः ।
ओं पूरयित्रे नमः ।
ओं रवये नमः ।
ओं जटिलाय नमः ।
ओं कल्मषध्वान्तप्रभञ्जनविभावसवे नमः ।
ओं अव्यक्तलक्षणाय नमः ।
ओं अव्यक्ताय नमः ।
ओं दशास्यद्वीपकेसरिणे नमः ।
ओं कलानिधये नमः ।
ओं कलानाथाय नमः ।
ओं कमलानन्दवर्धनाय नमः ।
ओं जयिने नमः । ५२०

ओं जितारये नमः ।
ओं सर्वादये नमः ।
ओं शमनाय नमः ।
ओं भवभञ्जनाय नमः ।
ओं अलङ्करिष्णवे नमः ।
ओं अचलाय नमः ।
ओं रोचिष्णवे नमः ।
ओं विक्रमोत्तमाय नमः ।
ओं आशवे नमः ।
ओं शब्दपतये नमः ।
ओं शब्दगोचराय नमः ।
ओं रञ्जनाय नमः ।
ओं रघवे नमः ।
ओं निश्शब्दाय नमः ।
ओं प्रणवाय नमः ।
ओं मालिने नमः ।
ओं स्थूलाय नमः ।
ओं सूक्ष्माय नमः ।
ओं विलक्षणाय नमः ।
ओं आत्मयोनये नमः । ५४०

ओं अयोनये नमः ।
ओं सप्तजिह्वाय नमः ।
ओं सहस्रपदे नमः ।
ओं सनातनतमाय नमः ।
ओं स्रग्विणे नमः ।
ओं पेशलाय नमः ।
ओं जविनां वराय नमः ।
ओं शक्तिमते नमः ।
ओं शङ्खभृते नमः ।
ओं नाथाय नमः ।
ओं गदापद्मरथाङ्गभृते नमः ।
ओं निरीहाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं चिद्रूपाय नमः ।
ओं वीतसाध्वसाय नमः ।
ओं शताननाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं शतमूर्तये नमः ।
ओं घनप्रभाय नमः ।
ओं हृत्पुण्डरीकशयनाय नमः । ५६०

ओं कठिनाय नमः ।
ओं द्रवाय नमः ।
ओं उग्राय नमः ।
ओं ग्रहपतये नमः ।
ओं श्रीमते नमः ।
ओं समर्थाय नमः ।
ओं अनर्थनाशनाय नमः ।
ओं अधर्मशत्रवे नमः ।
ओं रक्षोघ्नाय नमः ।
ओं पुरुहूताय नमः ।
ओं पुरुष्टुताय नमः ।
ओं ब्रह्मगर्भाय नमः ।
ओं बृहद्गर्भाय नमः ।
ओं धर्मधेनवे नमः ।
ओं धनागमाय नमः ।
ओं हिरण्यगर्भाय नमः ।
ओं ज्योतिष्मते नमः ।
ओं सुललाटाय नमः ।
ओं सुविक्रमाय नमः ।
ओं शिवपूजारताय नमः । ५८०

ओं श्रीमते नमः ।
ओं भवानीप्रियकृते नमः ।
ओं वशिने नमः ।
ओं नराय नमः ।
ओं नारायणाय नमः ।
ओं श्यामाय नमः ।
ओं कपर्दिने नमः ।
ओं नीललोहिताय नमः ।
ओं रुद्राय नमः ।
ओं पशुपतये नमः ।
ओं स्थाणवे नमः ।
ओं विश्वामित्राय नमः ।
ओं द्विजेश्वराय नमः ।
ओं मातामहाय नमः ।
ओं मातरिश्वने नमः ।
ओं विरिञ्चाय नमः ।
ओं विष्टरश्रवसे नमः ।
ओं सर्वभूतानामक्षोभ्याय नमः ।
ओं चण्डाय नमः ।
ओं सत्यपराक्रमाय नमः । ६००

ओं वालखिल्याय नमः ।
ओं महाकल्पाय नमः ।
ओं कल्पवृक्षाय नमः ।
ओं कलाधराय नमः ।
ओं निदाघाय नमः ।
ओं तपनाय नमः ।
ओं अमोघाय नमः ।
ओं श्लक्ष्णाय नमः ।
ओं परबलापहृते नमः ।
ओं कबन्धमथनाय नमः ।
ओं दिव्याय नमः ।
ओं कम्बुग्रीवाय नमः ।
ओं शिवप्रियाय नमः ।
ओं शङ्खाय नमः ।
ओं अनिलाय नमः ।
ओं सुनिष्पन्नाय नमः ।
ओं सुलभाय नमः ।
ओं शिशिरात्मकाय नमः ।
ओं असंसृष्टाय नमः ।
ओं अतिथये नमः । ६२०

ओं शूराय नमः ।
ओं प्रमाथिने नमः ।
ओं पापनाशकृते नमः ।
ओं वसुश्रवसे नमः ।
ओं कव्यवाहाय नमः ।
ओं प्रतप्ताय नमः ।
ओं विश्वभोजनाय नमः ।
ओं रामाय नमः ।
ओं नीलोत्पलश्यामाय नमः ।
ओं ज्ञानस्कन्धाय नमः ।
ओं महाद्युतये नमः ।
ओं पवित्रपादाय नमः ।
ओं पापारये नमः ।
ओं मणिपूराय नमः ।
ओं नभोगतये नमः ।
ओं उत्तारणाय नमः ।
ओं दुष्कृतिघ्ने नमः ।
ओं दुर्धर्षाय नमः ।
ओं दुस्सहाय नमः ।
ओं अभयाय नमः । ६४०

ओं अमृतेशाय नमः ।
ओं अमृतवपुषे नमः ।
ओं धर्मिणे नमः ।
ओं धर्माय नमः ।
ओं कृपाकराय नमः ।
ओं भर्गाय नमः ।
ओं विवस्वते नमः ।
ओं आदित्याय नमः ।
ओं योगाचार्याय नमः ।
ओं दिवस्पतये नमः ।
ओं उदारकीर्तये नमः ।
ओं उद्योगिने नमः ।
ओं वाङ्मयाय नमः ।
ओं सदसन्मयाय नमः ।
ओं नक्षत्रमालिने नमः ।
ओं नाकेशाय नमः ।
ओं स्वाधिष्ठानाय नमः ।
ओं षडाश्रयाय नमः ।
ओं चतुर्वर्गफलाय नमः ।
ओं वर्णिने नमः । ६६०

ओं शक्तित्रयफलाय नमः ।
ओं निधये नमः ।
ओं निधानगर्भाय नमः ।
ओं निर्व्याजाय नमः ।
ओं गिरीशाय नमः ।
ओं व्यालमर्दनाय नमः ।
ओं श्रीवल्लभाय नमः ।
ओं शिवारम्भाय नमः ।
ओं शान्तये नमः ।
ओं भद्राय नमः ।
ओं समञ्जसाय नमः ।
ओं भूशयाय नमः ।
ओं भूतिकृते नमः ।
ओं भूतिभूषणाय नमः ।
ओं भूतवाहनाय नमः ।
ओं अकायाय नमः ।
ओं भक्तकायस्थाय नमः ।
ओं कालज्ञानिने नमः ।
ओं महावटवे नमः ।
ओं परार्थवृत्तये नमः । ६८०

ओं अचलाय नमः ।
ओं विविक्ताय नमः ।
ओं श्रुतिसागराय नमः ।
ओं स्वभावभद्राय नमः ।
ओं मध्यस्थाय नमः ।
ओं संसारभयनाशनाय नमः ।
ओं वेद्याय नमः ।
ओं वैद्याय नमः ।
ओं वियद्गोप्त्रे नमः ।
ओं सर्वामरमुनीश्वराय नमः ।
ओं सुरेन्द्राय नमः ।
ओं करणाय नमः ।
ओं कर्मणे नमः ।
ओं कर्मकृते नमः ।
ओं कर्मिणे नमः ।
ओं अधोक्षजाय नमः ।
ओं ध्येयाय नमः ।
ओं धुर्याय नमः ।
ओं धराधीशाय नमः ।
ओं सङ्कल्पाय नमः । ७००

ओं शर्वरीपतये नमः ।
ओं परमार्थगुरवे नमः ।
ओं वृद्धाय नमः ।
ओं शुचये नमः ।
ओं आश्रितवत्सलाय नमः ।
ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं विभवे नमः ।
ओं वन्द्याय नमः ।
ओं यज्ञेशाय नमः ।
ओं यज्ञपालकाय नमः ।
ओं प्रभविष्णवे नमः ।
ओं ग्रसिष्णवे नमः ।
ओं लोकात्मने नमः ।
ओं लोकभावनाय नमः ।
ओं केशवाय नमः ।
ओं केशिघ्ने नमः ।
ओं काव्याय नमः ।
ओं कवये नमः ।
ओं कारणकारणाय नमः । ७२०

ओं कालकर्त्रे नमः ।
ओं कालशेषाय नमः ।
ओं वासुदेवाय नमः ।
ओं पुरुष्टुताय नमः ।
ओं आदिकर्त्रे नमः ।
ओं वराहाय नमः ।
ओं माधवाय नमः ।
ओं मधुसूदनाय नमः ।
ओं नारायणाय नमः ।
ओं नराय नमः ।
ओं हंसाय नमः ।
ओं विष्वक्सेनाय नमः ।
ओं जनार्दनाय नमः ।
ओं विश्वकर्त्रे नमः ।
ओं महायज्ञाय नमः ।
ओं ज्योतिष्मते नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं वैकुण्ठाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं कृष्णाय नमः । ७४०

ओं सूर्याय नमः ।
ओं सुरार्चिताय नमः ।
ओं नारसिंहाय नमः ।
ओं महाभीमाय नमः ।
ओं वक्रदंष्ट्राय नमः ।
ओं नखायुधाय नमः ।
ओं आदिदेवाय नमः ।
ओं जगत्कर्त्रे नमः ।
ओं योगीशाय नमः ।
ओं गरुडध्वजाय नमः ।
ओं गोविन्दाय नमः ।
ओं गोपतये नमः ।
ओं गोप्त्रे नमः ।
ओं भूपतये नमः ।
ओं भुवनेश्वराय नमः ।
ओं पद्मनाभाय नमः ।
ओं हृषीकेशाय नमः ।
ओं धात्रे नमः ।
ओं दामोदराय नमः ।
ओं प्रभवे नमः । ७६०

ओं त्रिविक्रमाय नमः ।
ओं त्रिलोकेशाय नमः ।
ओं ब्रह्मेशाय नमः ।
ओं प्रीतिवर्धनाय नमः ।
ओं वामनाय नमः ।
ओं दुष्टदमनाय नमः ।
ओं गोविन्दाय नमः ।
ओं गोपवल्लभाय नमः ।
ओं भक्तप्रियाय नमः ।
ओं अच्युताय नमः ।
ओं सत्याय नमः ।
ओं सत्यकीर्तये नमः ।
ओं धृत्यै नमः ।
ओं स्मृत्यै नमः ।
ओं कारुण्याय नमः ।
ओं करुणाय नमः ।
ओं व्यासाय नमः ।
ओं पापघ्ने नमः ।
ओं शान्तिवर्धनाय नमः ।
ओं संन्यासिने नमः । ७८०

ओं शास्त्रतत्त्वज्ञाय नमः ।
ओं मन्दराद्रिनिकेतनाय नमः ।
ओं बदरीनिलयाय नमः ।
ओं शान्ताय नमः ।
ओं तपस्विने नमः ।
ओं वैद्युतप्रभाय नमः ।
ओं भूतावासाय नमः ।
ओं गुहावासाय नमः ।
ओं श्रीनिवासाय नमः ।
ओं श्रियः पतये नमः ।
ओं तपोवासाय नमः ।
ओं मुदावासाय नमः ।
ओं सत्यवासाय नमः ।
ओं सनातनाय नमः ।
ओं पुरुषाय नमः ।
ओं पुष्कराय नमः ।
ओं पुण्याय नमः ।
ओं पुष्कराक्षाय नमः ।
ओं महेश्वराय नमः ।
ओं पूर्णमूर्तये नमः । ८००

ओं पुराणज्ञाय नमः ।
ओं पुण्यदाय नमः ।
ओं पुण्यवर्धनाय नमः ।
ओं शङ्खिने नमः ।
ओं चक्रिणे नमः ।
ओं गदिने नमः ।
ओं शार्ङ्गिणे नमः ।
ओं लाङ्गलिने नमः ।
ओं मुसलिने नमः ।
ओं हलिने नमः ।
ओं किरीटिने नमः ।
ओं कुण्डलिने नमः ।
ओं हारिणे नमः ।
ओं मेखलिने नमः ।
ओं कवचिने नमः ।
ओं ध्वजिने नमः ।
ओं योद्ध्रे नमः ।
ओं जेत्रे नमः ।
ओं महावीर्याय नमः ।
ओं शत्रुजिते नमः । ८२०

ओं शत्रुतापनाय नमः ।
ओं शास्त्रे नमः ।
ओं शास्त्रकराय नमः ।
ओं शास्त्राय नमः ।
ओं शङ्कराय नमः ।
ओं शङ्करस्तुताय नमः ।
ओं सारथये नमः ।
ओं सात्त्विकाय नमः ।
ओं स्वामिने नमः ।
ओं सामवेदप्रियाय नमः ।
ओं समाय नमः ।
ओं पवनाय नमः ।
ओं संहताय नमः ।
ओं शक्तये नमः ।
ओं सम्पूर्णाङ्गाय नमः ।
ओं समृद्धिमते नमः ।
ओं स्वर्गदाय नमः ।
ओं कामदाय नमः ।
ओं श्रीदाय नमः ।
ओं कीर्तिदाय नमः । ८४०

ओं अकीर्तिनाशनाय नमः ।
ओं मोक्षदाय नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं क्षीराब्धिकृतकेतनाय नमः ।
ओं सर्वात्मने नमः ।
ओं सर्वलोकेशाय नमः ।
ओं प्रेरकाय नमः ।
ओं पापनाशनाय नमः ।
ओं सर्वव्यापिने नमः ।
ओं जगन्नाथाय नमः ।
ओं सर्वलोकमहेश्वराय नमः ।
ओं सर्गस्थित्यन्तकृते नमः ।
ओं देवाय नमः ।
ओं सर्वलोकसुखावहाय नमः ।
ओं अक्षय्याय नमः ।
ओं शाश्वताय नमः ।
ओं अनन्ताय नमः ।
ओं क्षयवृद्धिविवर्जिताय नमः ।
ओं निर्लेपाय नमः ।
ओं निर्गुणाय नमः । ८६०

ओं सूक्ष्माय नमः ।
ओं निर्विकाराय नमः ।
ओं निरञ्जनाय नमः ।
ओं सर्वोपाधिविनिर्मुक्ताय नमः ।
ओं सत्तामात्रव्यवस्थिताय नमः ।
ओं अधिकारिणे नमः ।
ओं विभवे नमः ।
ओं नित्याय नमः ।
ओं परमात्मने नमः ।
ओं सनातनाय नमः ।
ओं अचलाय नमः ।
ओं निर्मलाय नमः ।
ओं व्यापिने नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निराश्रयाय नमः ।
ओं श्यामाय नमः ।
ओं युवायै [यूने] नमः ।
ओं लोहिताक्षाय नमः ।
ओं दीप्तास्याय नमः ।
ओं मितभाषणाय नमः । ८८०

ओं आजानुबाहवे नमः ।
ओं सुमुखाय नमः ।
ओं सिंहस्कन्धाय नमः ।
ओं महाभुजाय नमः ।
ओं सत्यवते नमः ।
ओं गुणसम्पन्नाय नमः ।
ओं स्वयन्तेजसे नमः ।
ओं सुदीप्तिमते नमः ।
ओं कालात्मने नमः ।
ओं भगवते नमः ।
ओं कालाय नमः ।
ओं कालचक्रप्रवर्तकाय नमः ।
ओं नारायणाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परमात्मने नमः ।
ओं सनातनाय नमः ।
ओं विश्वसृजे नमः ।
ओं विश्वगोप्त्रे नमः ।
ओं विश्वभोक्त्रे नमः ।
ओं शाश्वताय नमः । ९००

ओं विश्वेश्वराय नमः ।
ओं विश्वमूर्तये नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वभावनाय नमः ।
ओं सर्वभूतसुहृदे नमः ।
ओं शान्ताय नमः ।
ओं सर्वभूतानुकम्पनाय नमः ।
ओं सर्वेश्वरेश्वराय नमः ।
ओं सर्वस्मै नमः ।
ओं श्रीमते नमः ।
ओं आश्रितवत्सलाय नमः ।
ओं सर्वगाय नमः ।
ओं सर्वभूतेशाय नमः ।
ओं सर्वभूताशयस्थिताय नमः ।
ओं अभ्यन्तरस्थाय नमः ।
ओं तमसश्छेत्त्रे नमः ।
ओं नारायणाय नमः ।
ओं परस्मै नमः ।
ओं अनादिनिधनाय नमः ।
ओं स्रष्ट्रे नमः । ९२०

ओं प्रजापतिपतये नमः ।
ओं हरये नमः ।
ओं नरसिंहाय नमः ।
ओं हृषीकेशाय नमः ।
ओं सर्वात्मने नमः ।
ओं सर्वदृशे नमः ।
ओं वशिने नमः ।
ओं जगतस्तस्थुषाय नमः ।
ओं प्रभवे नमः ।
ओं नेत्रे नमः ।
ओं सनातनाय नमः ।
ओं कर्त्रे नमः ।
ओं धात्रे नमः ।
ओं विधात्रे नमः ।
ओं सर्वेषां प्रभवे नमः ।
ओं ईश्वराय नमः ।
ओं सहस्रमूर्तये नमः ।
ओं विश्वात्मने नमः ।
ओं विष्णवे नमः ।
ओं विश्वदृशे नमः । ९४०

ओं अव्ययाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं स्रष्ट्रे नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं तत्त्वाय नमः ।
ओं नारायणाय नमः ।
ओं विष्णवे नमः ।
ओं वासुदेवाय नमः ।
ओं सनातनाय नमः ।
ओं परमात्मने नमः ।
ओं परस्मै ब्रह्मणे नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं पराकाशाय नमः ।
ओं परात्परस्मै नमः ।
ओं अच्युताय नमः ।
ओं पुरुषाय नमः ।
ओं कृष्णाय नमः । ९६०

ओं शाश्वताय नमः ।
ओं शिवाय नमः ।
ओं ईश्वराय नमः ।
ओं नित्याय नमः ।
ओं सर्वगताय नमः ।
ओं स्थाणवे नमः ।
ओं उग्राय नमः ।
ओं साक्षिणे नमः ।
ओं प्रजापतये नमः ।
ओं हिरण्यगर्भाय नमः ।
ओं सवित्रे नमः ।
ओं लोककृते नमः ।
ओं लोकभृते नमः ।
ओं विभवे नमः ।
ओं रामाय नमः ।
ओं श्रीमते नमः ।
ओं महाविष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं देवहितावहाय नमः ।
ओं तत्त्वात्मने नमः । ९८०

ओं तारकाय नमः ।
ओं ब्रह्मणे नमः ।
ओं शाश्वताय नमः ।
ओं सर्वसिद्धिदाय नमः ।
ओं अकारवाच्याय नमः ।
ओं भगवते नमः ।
ओं श्रिये नमः ।
ओं भूलीलापतये नमः ।
ओं पुंसे नमः ।
ओं सर्वलोकेश्वराय नमः ।
ओं श्रीमते नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं स्वामिने नमः ।
ओं सुशीलाय नमः ।
ओं सुलभाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वशक्तिमते नमः ।
ओं नित्याय नमः ।
ओं सम्पूर्णकामाय नमः । १०००

ओं नैसर्गिकसुहृदे नमः ।
ओं सुखिने नमः ।
ओं कृपापीयूषजलधये नमः ।
ओं सर्वदेहिनां शरण्याय नमः ।
ओं श्रीमते नमः ।
ओं नारायणाय नमः ।
ओं स्वामिने नमः ।
ओं जगतां पतये नमः ।
ओं ईश्वराय नमः ।
ओं श्रीशाय नमः ।
ओं भूतानां शरण्याय नमः ।
ओं संश्रिताभीष्टदायकाय नमः ।
ओं अनन्ताय नमः ।
ओं श्रीपतये नमः ।
ओं रामाय नमः ।
ओं गुणभृते नमः ।
ओं निर्गुणाय नमः ।
ओं महते नमः । १०१८

इति श्री राम सहस्रनामावली ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: