Sri Rama Anusmruti Stotram – श्री रामानुस्मृति स्तोत्रम्


ब्रह्मोवाच ।
वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् ।
कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १ ॥

भास्वत्किरीटकटककटिसूत्रोपशोभितम् ।
विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २ ॥

श्रीवत्सकौस्तुभलसद्वक्षसं वनमालिनम् ।
मुक्ताहारसुशोभाढ्यं मुद्रिकारत्नभासुरम् ॥ ३ ॥

सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् ।
नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४ ॥

ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।
वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥

वीरासने समासीनं विद्युत्पुञ्जनिभाम्बरम् ।
कोटिसूर्यप्रतीकाशं कोमलाङ्गसमुज्ज्वलम् ॥ ६ ॥

जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।
हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥

दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।
प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८ ॥

एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।
नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥

विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।
नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥

नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।
नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११ ॥

योगिध्येयाय योगाय परमानन्दरूपिणे ।
शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥

य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।
षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥

पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।
श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४ ॥

समये समनुप्राप्ते राघवः सीतया सह ।
हृदि सन्दृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥

नित्यं चापररात्रेषु रामस्यैतां समाहितः ।
मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्र्यपातकैः ॥ १६ ॥

इति ब्रह्मप्रोक्तं श्रीरामानुस्मृति स्तोत्रम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed