Sri Narayana Ashtakam – श्री नारायणाष्टकम्


वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
-दौदार्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवत्साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १ ॥

प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादय-
-नार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २ ॥

श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३ ॥

नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा
रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ४ ॥

भो कृष्णाच्युत भो कृपालय हरे भो पाण्डवानां सखे
क्वासि क्वासि सुयोधनाद्यपहृतां भो रक्ष मामातुराम् ।
इत्युक्तोऽक्षयवस्त्रसंभृततनुर्योऽपालयद्द्रौपदीं
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५ ॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं
यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचितो
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ६ ॥

पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो
दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः ।
यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं
ह्यार्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ७ ॥

आर्ता विषण्णाः शिथिलाश्च भीता
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८

इति श्री कूरेशस्वामि कृत श्री नारायणाष्टकम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Narayana Ashtakam – श्री नारायणाष्टकम्

  1. This is not true. who is kureshi swamy. AARTHATHRANA NARAYANA ASHTADAAHAKA is written by Jagadguru Sri Sri Sri Shankaracharya. Refer Bruhath sthothra Rathnakara. I am very sure.

Leave a Reply

error: Not allowed