Sri Narasimha Stotram 3 (Rama Satkavi Krutam) – श्री नृसिंह स्तोत्रम् – ३ (रामसत्कवि कृतम्)


श्रीरमाकुचाग्रभासिकुङ्कुमाङ्कितोरसं
तापनाङ्घ्रिसारसं सदादयासुधारसम् ।
कुन्दशुभ्रशारदारविन्दचन्द्रसुन्दरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ १ ॥

पापपाशमोचनं विरोचनेन्दुलोचनं
फाललोचनादिदेवसन्नुतं महोन्नतम् ।
शेषतल्पशायिनं मनोरथप्रदायिनं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ २ ॥

सञ्चरस्सटाजटाभिरुन्नमेघमण्डलं
भैरवारवाटहासभेदिदामिहोदरम् ।
दीनलोकसादरं धराभरं जटाधरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ३ ॥

शाकिनीपिशाचिघोरढाकिनीभयङ्करं
ब्रह्मराक्षसव्यथा क्षयङ्करं शिवङ्करम् ।
देवतासुहृत्तमं दिवाकरं सुधाकरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ४ ॥

मत्स्यकूर्मक्रोडनारसिंहवामनाकृतिं
भार्गवं रघूद्वहं प्रलम्भगर्पुरापहम् ।
बुद्धकल्किविग्रहं जगद्विरोधिनिग्रहं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ५ ॥

धारुणी वधूमणी गृहीतपादपल्लवं
नन्दगोष्ट्रवल्लवीसतीमनोज्ञवल्लभम् ।
मायिनां विशारदं भवाम्बुराशिपारदं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ६ ॥

मोहतापहारिणं गदारथाङ्गधारिणं
श्रीमनोविहारिणं विदेहजोर्निवारिणम् ।
दानवेन्द्रवैरिणं तपोधनेष्टकारिणं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ७ ॥

रामसत्कविप्रणीतमेतदष्टका शिवं
देवसारसङ्ग्रहं महोग्रपातकान्तकम् ।
जल्पितां निरन्तरं समस्तकामपूरकं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ८ ॥

इति रामसत्कवि कृत श्री नृसिंह अष्टक स्तोत्रम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed