Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कुन्देन्दुशङ्खवर्ण कृतयुगभगवान् पद्मपुष्पप्रदाता
त्रेतायां काञ्चनाभः पुनरपि समये द्वापरे रक्तवर्णः ।
शङ्के सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभौ
प्रद्योत सृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥
नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं
वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकिटितटमुखं केशकेशार्धभागं
वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ २ ॥
पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरु मध्याह्नसेतुं
नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविध्वंसनेतः ।
आहुश्चक्रन्तस्यबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् ।
वक्त्रं वह्न्यस्य विद्वत्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥
घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं
चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।
द्वात्रिंशद्बाहुयुग्मं परिखगदाशूलपाशाग्निधारं
वन्दे भीमाट्टहासं नखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥
गोकण्ठं दारुणान्तं वनवरविटपी डिण्डिडिण्डोटडिम्भं
डिम्भं डिम्भं डिडिम्भं दहमपि दहमः झम्प्रझम्प्रेस्तु झम्प्रैः ।
तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं
इत्येवं नारसिंहं वहति ककुभतः पातु मां नारसिंहः ॥ ५ ॥
भूभृद्भूभृद्भुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं
खर्जन्तं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।
भूभागं भोगभागं गगगग गहनं कद्रुमधृत्यकण्ठं
स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥
झुञ्झुञ्झुङ्कारकारं जटिमटिजननं जानुरूपं जकारं
हंहं हंसस्वरूपं हयशतककुभं अट्टहासं विवेशम् ।
वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं
लंलंलं लालिताक्षं नखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥
यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं
पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुञ्चिताग्रोग्रतेजाः ।
भीताऽमीदानवेन्द्राः सुरभयविनुतिः शक्तिनिर्मुक्तहस्तं
नासास्यं किं किमेतं क्षं वितजनकजः पातु मां नारसिंहः ॥ ८ ॥
श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं
वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।
होंहोंहोङ्कारकारं हुतवहनयनं प्रज्वलज्वालफालं
क्षङ्क्षङ्क्षं बीजरूपं नरहरिविनुतः पातु मां नारसिंहः ॥ ९ ॥
अहो वीर्यमहो शौर्यं महाबलपराक्रमम् ।
नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥
ज्वालाऽहोबल मालोलः क्रोड कारञ्ज भार्गवम् ।
योगानन्दश्छत्रवट पावना नवमूर्तयः ॥ ११ ॥
श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादिवृश्चिकजलाग्निभुजङ्गरोग-
-क्लेशव्ययाय हरये गुरवे नमस्ते ॥
इति श्री नृसिंह स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

