Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कुन्देन्दुशङ्खवर्ण कृतयुगभगवान् पद्मपुष्पप्रदाता
त्रेतायां काञ्चनाभः पुनरपि समये द्वापरे रक्तवर्णः ।
शङ्के सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभौ
प्रद्योत सृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥
नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं
वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकिटितटमुखं केशकेशार्धभागं
वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ २ ॥
पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरु मध्याह्नसेतुं
नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविध्वंसनेतः ।
आहुश्चक्रन्तस्यबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् ।
वक्त्रं वह्न्यस्य विद्वत्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥
घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं
चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।
द्वात्रिंशद्बाहुयुग्मं परिखगदाशूलपाशाग्निधारं
वन्दे भीमाट्टहासं नखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥
गोकण्ठं दारुणान्तं वनवरविटपी डिण्डिडिण्डोटडिम्भं
डिम्भं डिम्भं डिडिम्भं दहमपि दहमः झम्प्रझम्प्रेस्तु झम्प्रैः ।
तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं
इत्येवं नारसिंहं वहति ककुभतः पातु मां नारसिंहः ॥ ५ ॥
भूभृद्भूभृद्भुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं
खर्जन्तं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।
भूभागं भोगभागं गगगग गहनं कद्रुमधृत्यकण्ठं
स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥
झुञ्झुञ्झुङ्कारकारं जटिमटिजननं जानुरूपं जकारं
हंहं हंसस्वरूपं हयशतककुभं अट्टहासं विवेशम् ।
वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं
लंलंलं लालिताक्षं नखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥
यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं
पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुञ्चिताग्रोग्रतेजाः ।
भीताऽमीदानवेन्द्राः सुरभयविनुतिः शक्तिनिर्मुक्तहस्तं
नासास्यं किं किमेतं क्षं वितजनकजः पातु मां नारसिंहः ॥ ८ ॥
श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं
वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।
होंहोंहोङ्कारकारं हुतवहनयनं प्रज्वलज्वालफालं
क्षङ्क्षङ्क्षं बीजरूपं नरहरिविनुतः पातु मां नारसिंहः ॥ ९ ॥
अहो वीर्यमहो शौर्यं महाबलपराक्रमम् ।
नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥
ज्वालाऽहोबल मालोलः क्रोड कारञ्ज भार्गवम् ।
योगानन्दश्छत्रवट पावना नवमूर्तयः ॥ ११ ॥
श्रीमन्नृसिंह विभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय ।
तृष्णादिवृश्चिकजलाग्निभुजङ्गरोग-
-क्लेशव्ययाय हरये गुरवे नमस्ते ॥
इति श्री नृसिंह स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.