Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीनृसिंह द्वादशनाम स्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः, अनुष्टुप् छन्दः श्रीलक्ष्मीनृसिंहो देवता श्रीलक्ष्मीनृसिंह प्रीत्यर्थे जपे विनियोगः ।
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥ १ ॥
पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥ २ ॥
ततः प्रह्लादवरदो दशमोऽनन्तहस्तकः । [नवं]
एकादशो महारुद्रः द्वादशो दारुणस्तथा ॥ ३ ॥
द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥ ४ ॥
क्षयापस्मार कुष्ठादि तापज्वर निवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥ ५ ॥
गिरिगह्वारकारण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥ ६ ॥
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥ ७ ॥
इति श्री नृसिंह द्वादशनाम स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
ଶ୍ରୀ ନୃସିଂହ dwadasa ନାମ