Sri Mathangi Hrudayam – श्री मातङ्गी हृदयम्


एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ १ ॥

श्रीभैरव्युवाच ।
भगवन् सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ २ ॥

केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ ३ ॥

श्रीभैरव उवाच ।
शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये ।
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ ४ ॥

पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखावाप्ति मङ्गलप्रदमुत्तमम् ॥ ५ ॥

मातङ्ग्या हृदयं स्तोत्रं दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च ह्यस्ति सर्वसुखप्रदम् ॥ ६ ॥

अस्य श्रीमातङ्गी हृदयस्तोत्र मन्त्रस्य दक्षिणामूर्तिरृषिः विराट् छन्दः मातङ्गी देवता ह्रीं बीजं हूं शक्तिः क्लीं कीलकं सर्ववाञ्छितार्थसिद्ध्यर्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः –
ओं दक्षिणामूर्तिरृषये नमः शिरसि । विराट्छन्दसे नमो मुखे । मातङ्गीदेवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । हूं शक्तये नमः पादयोः । क्लीं कीलकाय नमो नाभौ । विनियोगय नमः सर्वाङ्गे ॥

करन्यासः –
ओं ह्रीं अङ्गुष्ठाभ्यां नमः । ओं क्लीं तर्जनीभ्यां नमः । ओं हूं मध्यमाभ्यां नमः । ओं ह्रीं अनामिकाभ्यां नमः । ओं क्लीं कनिष्ठिकाभ्यां नमः । ओं हूं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्रीं हृदयाय नमः । ओं क्लीं शिरसे स्वाहा । ओं हूं शिखायै वषट् । ओं ह्रीं नेत्रत्रयाय वौषट् । ओं क्लीं कवचाय हुम् । ओं हूं अस्त्राय फट् ।

ध्यानम् ।
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जाङ्घ्रियुग्माम् ।
नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ॥ ७ ॥

नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै-
-र्दयार्द्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ ८ ॥

परं मातस्ते यो जपति मनुमव्यग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता
नटीं मन्या वाणी नटति रसनायां च फलिता ॥ ९ ॥

तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां मालाः शिरसि युञ्जन्ति सदये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १० ॥

सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि तव ङेन्तं मनुमितम् ।
पृथङ्नाम्ना तेनायुतकलितमर्चन्ति खलु ते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११ ॥

तव प्रीत्यै मातर्ददति बलिमाधाय बलिना
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्या ये स्वान्तस्तव चरणमोदैकरसिका
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ १२ ॥

लसल्लोलश्रोत्राभरणकिरणक्रान्तिकलितं
[ मितस्मित्यापन्नप्रतिभितममन्नं विकरितम् ]
मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितम् ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३ ॥

परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसा-
-मयं सेव्यः सद्योऽभिमतफलदश्चातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनिशं
न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४ ॥

धनार्थी धनमाप्नोति दारार्थी सुन्दरीं प्रियाम् ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्तनात् ॥ १५ ॥

विद्यार्थी लभते विद्यां विविधां विभवप्रदाम् ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ १६ ॥

नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितम् ।
कुबेरसमसम्पत्तिः स भवेद्धृदयं पठन् ॥ १७ ॥

किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गीहृदयस्तोत्रपाठात्तत्सर्वमाप्नुयात् ॥ १८ ॥

इति श्रीदक्षिणामूर्तिसंहितायां श्री मातङ्गी हृदय स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed