Sri Lalitha Upanishad – श्री ललितोपनिषत्


श्रीललितात्रिपुरसुन्दर्यै नमः ।

ओं परमकारणभूता शक्तिः केन नवचक्ररूपो देहः । नवचक्रशक्तिमयं श्रीचक्रम् वाराहीपितृरूपा कुरुकुल्ला बलिदेवता माता । । पुरुषार्थाः सागराः । देहो नवरत्ने द्वीपः । आधारनवकमुद्राः शक्तयः । त्वगादिसप्तधातुभिरनेकैः सम्युक्ताः सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥

रसनया भासमाना मधुराम्लतिक्तकटुकषायलवणरसाः षड्रसाः । क्रियाशक्तिः पीठं कुण्डलिनी ज्ञानशक्तिरहमिच्छाशक्तिः । महात्रिपुरसुन्दरी ज्ञाता होता । ज्ञानमर्ध्यं ज्ञेयं हविः
ज्ञातृज्ञानज्ञेयानां नमोभेदभावनं श्रीचक्रपूजनम् ॥

नियतिसहितशृङ्गारादयो नवरसाः । अणिमादयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्यादयोऽष्टशक्तयः । आधारनवकमुद्रा शक्तयः । पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा-प्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडशशक्तयः । वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा-बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी-
गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना चेति चतुर्दशनाडयः सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः ॥

प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दशवायवः सर्वसिद्धिप्रदादि बहिर्दशारदेवताः । एतद्वायुदशकसंसर्गोपाधिभेदेन रेचकपूरकपोषकदाहकाल्पावकामृतमिति प्राणः सङ्ख्यत्वेन पञ्चविधोऽस्ति । जठराग्निर्मनुष्याणां मोहको भक्ष्यभोज्यलेह्यचोष्यात्मकं चतुर्विधमन्नं पाचयति । तदा
काशवान्सकलाः सर्वज्ञत्वाद्यन्तर्दशारदेवताः ॥

शीतोष्णसुखदुःखेच्छासत्वरजस्तमोगुणादय वशिन्यादिशक्तयोऽष्टौ । शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा मन इक्षुधनुर्वल्यो बाणो रागः पाशो द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्वाहङ्कारकामेश्वरीवज्रेश्वरी-भगमालिन्योऽन्तस्त्रिकोणाग्रदेवताः ॥

पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनपञ्चदशनित्याः शुद्धानुरुपाधिदेवताः । निरुपाधिसार्वदेवकामेश्वरी सदाऽऽनन्दपूर्णा । स्वात्म्यैक्यरूपललिताकामेश्वरी सदाऽऽनन्दघनपूर्णा स्वात्मैक्यरूपा देवता ललितामिति ॥

साहित्यकरणं सत्त्वम् । कर्त्तव्यमकर्त्तव्यमिति भावनामुक्ता उपचाराः । अहं त्वमस्ति नास्ति कर्त्तव्याकर्त्तव्यमुपासितव्यानुपासितव्यमिति विकल्पना । मनोविलापनं होमः ॥

बाह्याभ्यन्तरकरणानां रूपग्रहणयोग्यतास्तीत्यावाहनम् । तस्य बाह्याभ्यन्तरकरणानामेकरूपविषयग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदाऽऽनन्दात्सानन्दनमर्घ्यम् । स्वच्छास्वतः शक्तिरित्याचमनम् । चिच्चन्द्रमयीस्मरणं स्नानम् । चिदग्निस्वरूपपरमानन्दशक्तिस्मरणं वस्त्रम् । प्रत्येकं सप्तविंशतिधाभिन्नत्वेन इच्छाक्रियात्मकब्रह्मग्रन्थिमयी सतन्तुब्रह्मनाडी ब्रह्मसूत्रं सव्यातिरिक्तवस्त्रम् । सङ्गरहितं स्मरणं विभूषणम् । स्वच्छन्दपरिपूर्णस्मरणं गन्धः । समस्तविषयाणां मनःस्थैर्येणानुसन्धानं कुसुमम् । तेषामेव सर्वदा स्वीकरणं धूपः । पवनाच्छिन्नोर्ध्वज्वालासच्चिदाह्लादाकाशदेहो दीपः । समस्तयातायातवर्जनं नैवेद्यम् । अवस्थात्रयैकीकरणं ताम्बूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । तुरीयावस्थानं संस्कारदेहशून्यं प्रमादितावतिमज्जनं बलिहरणम् । सत्त्वमस्ति कर्त्तव्यमकर्त्तव्यमौदासीन्यमात्मविलापनं होमः । भावनाविषयाणामभेदभावना तर्पणम् । स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ॥

एवं मूर्तित्रयं भावनया युक्तो मुक्तो भवति । तस्य देवतात्मैक्यसिद्धिश्चितिकार्याण्यप्रयत्नेन सिध्यन्ति स एव शिवयोगीति कथ्यते ॥

इति श्रीललितोपनिषत्सम्पूर्णा ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed