Sri Lalitha Sahasranama Stotram Uttarapeetika – श्री ललिता सहस्रनाम स्तोत्रम् – उत्तरपीठिका



हयग्रीव उवाच ।
इत्येतन्नामसाहस्रं कथितं ते घटोद्भव ।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ॥ १ ॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ।
सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम् ॥ २ ॥

सर्वापमृत्युशमनं कालमृत्युनिवारणम् ।
सर्वाज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ॥ ३ ॥

पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ।
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ॥ ४ ॥

जपेन्नित्यं प्रयत्नेन ललितोप्रास्तितत्परः ।
प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ॥ ५ ॥

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ।
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ॥ ६ ॥

रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ।
जन्ममध्ये सकृच्चापि य एतत्पठते सुधीः ॥ ७ ॥

तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
गङ्गादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ॥ ८ ॥

कोटिलिङ्गप्रतिष्ठां च यः कुर्यादविमुक्तके ।
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ॥ ९ ॥

कोटिं सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ।
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ॥ १० ॥

आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ।
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ॥ ११ ॥

श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ।
तत्पुण्यं कोटिगुणितं भवेत्पुण्यमनुत्तमम् ॥ १२ ॥

रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ।
रहस्यनामसाहस्रे नामैकमपि यः पठेत् ॥ १३ ॥

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नित्यकर्माननुष्ठानान्निषिद्धकरणादपि ॥ १४ ॥

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ॥ १५ ॥

अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने ।
तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश ॥ १६ ॥

यस्त्यक्त्वा नामसाहस्रं पापहानिमभीप्सति ।
स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते ॥ १७ ॥

भक्तो यः कीर्तयेन्नित्यमिदं नामसहस्रकम् ।
तस्मै श्रीललितादेवी प्रीताऽभीष्टं प्रयच्छति ॥ १८ ॥

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति ।
नित्यं सङ्कीर्तनाशक्तः कीर्तयेत्पुण्यवासरे ॥ १९ ॥

सङ्क्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने ।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे ॥ २० ॥

कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ।
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् ॥ २१ ॥

पञ्चोपचारैः सम्पूज्य पठेन्नामसाहस्रकम् ।
सर्वेरोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥ २२ ॥

अयमायुष्करो नाम प्रयोगः कल्पचोदितः ।
ज्वरार्तं शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम् ॥ २३ ॥

तत्‍क्षणात्प्रशमं याति शिरस्तोदो ज्वरोऽपि च ।
सर्वव्याधिनिवृत्त्यर्थं स्पष्ट्वा भस्म जपेदिदम् ॥ २४ ॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात् ।
जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने ॥ २५ ॥

अभिषिञ्चेद्ग्रहग्रस्तान्ग्रहा नश्यन्ति तत्‍क्षणात् ।
सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम् ॥ २६ ॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति ।
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ॥ २७ ॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद्ध्रुवम् ।
देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च ॥ २८ ॥

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ जपेन्नामसहस्रकम् ।
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ॥ २९ ॥

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ॥ ३० ॥

स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ।
आरुह्यायाति निकटं दासवत्प्रणिपत्य च ॥ ३१ ॥

तस्मै राज्यं च कोशं च ददात्येव वशं गतः ।
रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ॥ ३२ ॥

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ।
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ॥ ३३ ॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ।
यो वाऽभिचारं कुरुते नामसाहस्रपाठके ॥ ३४ ॥

निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ।
ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम् ॥ ३५ ॥

तानन्धान्कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः ।
धनं यो हरते चोरैर्नामसाहस्रजापिनः ॥ ३६ ॥

यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ।
विद्यासु कुरुते वादं यो विद्वान्नामजापिना ॥ ३७ ॥

तस्य वाक् स्तम्भनं सद्यः करोति नकुलेश्वरी ।
यो राजा कुरुते वैरं नामसाहस्रजापिना ॥ ३८ ॥

चतुरङ्गबलं तस्य दण्डिनी संहारेत्स्वयम् ।
यः पठेन्नामसाहस्रं षण्मासं भक्तिसम्युतः ॥ ३९ ॥

लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे ।
मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः ॥ ४० ॥

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः ।
यस्त्वेकवारं पठति पक्षमात्रमतन्द्रितः ॥ ४१ ॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात् ।
यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ॥ ४२ ॥

तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ॥ ४३ ॥

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ।
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ॥ ४४ ॥

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ।
तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता ॥ ४५ ॥

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः ।
पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम् ॥ ४६ ॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः ।
श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते ॥ ४७ ॥

देवता ललितातुल्या यथा नास्ति घटोद्भव ।
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ॥ ४८ ॥

लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ।
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ॥ ४९ ॥

बहुनात्र किमुक्तेन शृणु त्वं कुम्भसम्भव ।
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु दृश्यते ॥ ५० ॥

तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ।
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ॥ ५१ ॥

पद्मैर्वा तुलसीपुष्पैः कल्हारैर्वा कदम्बकैः ।
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ॥ ५२ ॥

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ।
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ॥ ५३ ॥

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ॥ ५४ ॥

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः ।
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ॥ ५५ ॥

रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ।
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ॥ ५६ ॥

न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ।
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ॥ ५७ ॥

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ।
यस्तु नामसहस्रेण शुक्रवारे समर्चयेत् ॥ ५८ ॥

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ।
सर्वान्कामानवाप्येह सर्वसौभाग्यसम्युतः ॥ ५९ ॥

पुत्रपौत्रादिसम्युक्तो भुक्त्वा भोगान्यथेप्सितान् ।
अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम् ॥ ६० ॥

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः ।
यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः ॥ ६१ ॥

समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः ।
तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति ॥ ६२ ॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ॥ ६३ ॥

ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ।
धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः ॥ ६४ ॥

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ।
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ॥ ६५ ॥

कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ।
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ॥ ६६ ॥

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ।
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ॥ ६७ ॥

नामसङ्कीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ।
लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम् ॥ ६८ ॥

विष्णुनामासहस्राच्च शिवनामैकमुत्तमम् ।
शिवनामसहस्राच्च देव्या नामैकमुत्तमम् ॥ ६९ ॥

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज ।
तेषु मुख्यं दशविधं नामसाहस्रमुच्यते ॥ ७० ॥

गङ्गा भवानी गायत्री काली लक्ष्मीः सरस्वती ।
राजराजेश्वरी बाला श्यामला ललिता दश ॥ ७१ ॥

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि ।
तस्मात्सङ्कीर्तयेन्नित्यं कलिदोषनिवृत्तये ॥ ७२ ॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ।
विष्णुनामपराः केचिच्छिवनामपराः परे ॥ ७३ ॥

न कश्चिदपि लोकेषु ललितानामतत्परः ।
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ॥ ७४ ॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ॥ ७५ ॥

नामसाहस्रपाठश्च तथा चरमजन्मनि ।
यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७६ ॥

तथैव विरलो गुह्यनामसाहस्रपाठकः ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ॥ ७७ ॥

रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ।
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ॥ ७८ ॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥ ७९ ॥

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ॥ ८० ॥

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ।
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ॥ ८१ ॥

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव ।
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ॥ ८२ ॥

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ।
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ॥ ८३ ॥

यो ददाति विमूढात्मा श्रीविद्यारहिताय च ।
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः ॥ ८४ ॥

रहस्यनामसाहस्रं तस्मात्सङ्गोपयेदिदम् ।
स्वातन्त्रेण मया नोक्तं तवापि कलशोद्भव ॥ ८५ ॥

ललिताप्रेरणेनैव मयोक्तं स्तोत्रमुत्तमम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ८६ ॥

श्रीसूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्या श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ८७ ॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्र फलनिरूपणं नाम तृतीयोऽध्यायः ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed