Sri Lalitha Arya Dwisathi – आर्या द्विशती

:: Chant this in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST) ::

वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टं ।
कुङ्कुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १ ॥

स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः ।
काञ्चन निकुञ्जवाटी कन्दलदमरीप्रपञ्च सङ्गीतः ॥ २ ॥

हरिहयनैरृतमारुत हरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३ ॥

मध्ये पुनर्मनोहररत्नरुचिस्तबक रञ्जितदिगन्तम् ।
उपरि चतुः शतयोजनमुत्तङ्ग शृङ्गम्पुङ्गवमुपासे ॥ ४ ॥

तत्र चतुः शतयोजनपरिणाहं देव शिल्पिना रचितम् ।
नानासालमनोज्ञं नमाम्यहं नगरं आदिविद्यायाः ॥ ५ ॥

प्रथमं सहस्रपूर्वक षट्शतसङ्ख्याक योजनं परितः ।
वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययो रूपम् ॥ ६ ॥

तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो घण्टास्तनसार निर्मितः सालः ॥ ७ ॥

उभयोरन्तरसीमन्युद्दाम भ्रमररञ्जितोदारम् ।
उपवमनमुपास्महे वयमूरीकृत मन्दमारुत स्यन्दम् ॥ ८ ॥

आलिङ्ग्य भद्रकालीमासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९ ॥

तार्त्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्तिस्तनुतादा चन्द्रतारकं भद्रम् ॥ १० ॥

मध्ये तयोश्च मणिमयपल्लवशाखा प्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ ११ ॥

तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्रः ॥ १२ ॥

नमत तदुत्तरभागे नाकिपथोल्लङ्घि शृङ्गसङ्घातम् ।
सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ १३ ॥

सालद्वयान्तराले सरलालिकपोत-चाटुसुभगायाम् ।
सन्तानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४ ॥

तत्र तपनादिरूक्षः साम्राज्ञीचरण सान्द्रितस्वान्तः ।
शुक्र शुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ १५ ॥

उत्तरसीमनि तस्योन्नतशिखरोत्कम्पि हाटकपताकः ।
प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ १६ ॥

प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटीहरतादामूलमस्मदनुतापम् ॥ १७ ॥

तत्र नभश्री मुख्यैस्तरुणी वर्गैः समन्वितः परितः ।
वज्राट्टऋहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८ ॥

मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ १९ ॥

अनयोर्मध्ये सन्ततमङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ २० ॥

तस्यामिषोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीयादम्बामामोदमेदुरैः कुसुमैः ॥ २१ ॥

तस्यर्षिसङ्ख्ययोजनदूरे देदीप्यमानशृङ्गौघः ।
कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ २२ ॥

मध्ये तयोर्मरुत्पथ लङ्घिथविट-पाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३ ॥

तस्यामतिप्रियाभ्यां सहखेलन् सहसहस्य लक्ष्मीभ्याम् ।
सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४ ॥

उत्तरतस्तस्य महानुद्भट हुत्भुक्षि स्वारुणः मयूखः ।
तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥ २५ ॥

कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरककन्दलितामोद-तुन्दिलसमीराम् ॥ २६ ॥

तस्यामति-शिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ २७ ॥

तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलित-मधुगन्धम् ।
सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणी-शरणम् ॥ २८ ॥

तत्रालये विशाले तपनीयारचित-तरल-सोपाने ।
माणिक्य मण्डपान्तर्महिते सिंहासने मणीखचिते ॥ २९ ॥

बिन्दु-त्रिपञ्च-कोण-द्विप-नृप-वसु-वेद-दल-कुरेखाढ्ये ।
चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ ३० ॥

तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राधरबिम्बदृष्टदरहासाम् ॥ ३१ ॥

कुङ्कुमपङ्किलदेहां कुवलय-जीवातु-शावकावतंसाम् ।
कोकनदशोणचरणां कोकिल-निक्वाण-कोमलालापाम् ॥ ३२ ॥

वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चित मुग्धालिक-मिलित-चित्रकोदाराम् ॥ ३३ ॥

करविधृतकीरशावक-कल-निनद-व्यक्त-निखिल-निगमार्थाम् ।
वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥ ३४ ॥

आपाटलांशुकधरां आदिरसोन्मेषवासित कटाक्षाम् ।
आम्नायसारगुलिकां आद्यां सङ्गीतमातृकां वन्दे ॥ ३५ ॥

तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम सन्तापं सालो नवमः स पुष्परागमयः ॥ ३६ ॥

अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनुचिन्तन-निस्तन्द्र-सिद्धनीरन्ध्राः ॥ ३७ ॥

तत्सालोत्तरदेशे तरुणजपा-किरण-धोरणी-शोणः ।
प्रशमयतु पद्मरागप्राकारो मम पराभवं दशमः ॥ ३८ ॥

अन्तरभूकृतवासाननयोरपनीत चित्तवैमत्यान् ।
चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥ ३९ ॥

सारङ्गवाहयोजनदूरेऽऽसङ्घटित केतनस्तस्य ।
गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ ४० ॥

वप्रद्वयान्तरोर्व्यां वटुकैर्विविधैश्च योगिनी बृन्दैः ।
सततं समर्चितायाः सङ्कर्षिण्याः प्रणौमि चरणाब्जम् ॥ ४१ ॥

तापसयोजनदूरे तस्य समुत्तुङ्गः गोपुरोपेतः ।
वाञ्छापूर्त्यै भवताद्वज्रमणी-निकर-निर्मितो वप्रः ॥ ४२ ॥

वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्याः रचयन्तु महान्तमस्मदानन्दम् ॥ ४३ ॥

तत्र सदा प्रवहन्ति तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्यत् कलहंसीकुलकलक्वणितपुष्टा ॥ ४४ ॥

रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषितवज्रिमुखत्रिदश-विनुतचारित्रा ॥ ४५ ॥

तस्योदीच्यां हरिति स्तवकितसुषमावलीढ-वियदन्तः ।
वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥ ४६ ॥

अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् ।
कार्कोटकादिनागान् कलयामः किं च बलिमुखान्दनुजान् ॥ ४७ ॥

गन्धवहसङ्ख्य-योजनदूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो वरणो वर्धयतु वैदुषीं विशदाम् ॥ ४८ ॥

मध्यक्षोण्यामनयोर्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरी सहायान्भूपालानपि पुनः पुनः प्रणुमः ॥ ४९ ॥

आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु वप्रः ॥ ५० ॥

आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरन्दरः श्रीमान् ।
अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥ ५१ ॥

तत्कोणे व्यजनस्रुक्तोमरपात्रस्रुवान्न शक्तिधरः ।
स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ ५२ ॥

दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः ।
त्रिपुरपदाब्जभक्तस्तिरयतु मम निखिलमंहंसां निकरम् ॥ ५३ ॥

तस्यैव पश्चिमायां दिशि दलितेन्दीवर प्रभाश्यामः ।
खेटासि यष्टिधारी खेदानपनयतु यातुधानो मे ॥ ५४ ॥

तस्या उत्तरदेशे धवलाङ्गो विपुलझष वरारूढः ।
पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥ ५५ ॥

वन्दे तदुत्तरहरित्कोणे वायुं चमूरूवरवाहम् ।
कोरकित तत्वबोधान्गोरक्ष प्रमुख योगिनोऽपि मुहुः ॥ ५६ ॥

तरुणीरिडाप्रधानास्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायनपान-परिभ्रान्त-लोचनाः कलये ॥ ५७ ॥

तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥ ५८ ॥

तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥ ५९ ॥

तत्पुरुषोडशवरणस्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठितान् रुद्राणीसहचरान् भजे रुद्रान् ॥ ६० ॥

पवमानसङ्ख्ययोजनदूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः सम्पदमचलां श्रियं च पुष्णातु ॥ ६१ ॥

आवृति युग्मान्तरतो हरितमणी-निवहमेचके देशे ।
हाटक-ताली-विपिनं हालाघटघटित-विटपमाकलये ॥ ६२ ॥

तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं दद्यादायूषि दण्डनाथायाः ॥ ६३ ॥

सदने तव हरिन्मणिसङ्घटिते मण्डपे शतस्तम्भे ।
कार्त्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४ ॥

बिन्दुत्रिकोणवर्तुलषडस्रवृत्तद्वयान्विते चक्रे ।
सञ्चारिणी दशोत्तरशतार्ण-मनुराजकमलकलहंसी ॥ ६५ ॥

कोलवदना कुशेशयनयना कोकारिमण्डितशिखण्डा ।
सन्तप्तकाञ्चनाभा सन्ध्यारुण-चेल-संवृत-नितम्बा ॥ ६६ ॥

हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलङ्कषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७ ॥

धूर्तानामतिदूरावार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाञ्छितार्थाय ॥ ६८ ॥

तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जम्भिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥ ६९ ॥

पूर्वोक्तसङ्ख्ययोजनदूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं विद्रुमसालो विशङ्कटद्वारः ॥ ७० ॥

आवरणयोर्महर्निशमन्तरभूमौ प्रकाशशालिन्याम् ।
आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ॥ ७१ ॥

वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः सङ्घटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२ ॥

अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् ।
माणिख्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ ७३ ॥

तत्र स्तिथं प्रसन्नं तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥ ७४ ॥

शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकृपम् ।
मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिका रुचिरम् ॥ ७५ ॥

नालीकदलसहोदरनयनाञ्चलघटितमनसिजाकूतम् ।
कमलाकठिणपयोधरकस्तूरी-धुसृणपङ्किलोरस्कम् ॥ ७६ ॥

चाम्पेयगन्धिकैश्यं शम्पासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७ ॥

कम्बुसुदर्शनविलसत्-करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८ ॥

तद्वरणोत्तरभागे तारापति-बिम्बचुम्बिनिजशृङ्गः ।
विविधमणी-गणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥ ७९ ॥

प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकर-सङ्कीर्णाम् ।
नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥ ८० ॥

प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१ ॥

तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२ ॥

तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामय-कलहंसी-मुद्रित-कनकारविन्दसन्दोहाम् ॥ ८३ ॥

शक्रोपलमयभृङ्गीसङ्गीतोन्मेषघोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलसत्कारण्डवषण्ड-ताण्डवमनोज्ञाम् ॥ ८४ ॥

कुरुविन्दात्म-कहल्लक-कोरक-सुषमा-समूह-पाटलिताम् ।
कलये सुधास्वरूपां कन्दलितामन्दकैरवामोदाम् ॥ ८५ ॥

तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूर-पाटलाङ्गीं सितकिरणाङ्कूरकल्पितवतंसाम् ॥ ८६ ॥

पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकवरीं कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७ ॥

निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्तीं परितस्तारां तारुण्यगर्वितां वन्दे ॥ ८८ ॥

प्रागुक्तसङ्ख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्यामष्टापदपुष्टमेदिनीं रुचिराम् ॥ ८९ ॥

कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥ ९० ॥

माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधानामन्तः कलयामि वारुणीं देवीम् ॥ ९१ ॥

सौवर्णकेनिपातनहस्ताः सौन्दर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो वितरन्त्वस्माकमायुषो वृद्धिम् ॥ ९२ ॥

तस्य पृषदश्वयोजनदूरेऽहङ्कारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ ९३ ॥

विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलङ्घ्यवीचीकोलाहलभरितकूलवनवाटीम् ॥ ९४ ॥

तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चुकलसितां श्यामा-विटबिम्बडम्बरहरास्याम् ॥ ९५ ॥

आभुग्नमसृणचिल्लीहसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६ ॥

कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७ ॥

तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८ ॥

तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥ ९९ ॥

चक्षुष्मतीप्रकाशनशक्तिच्छाया-समारचितकेलिम् ।
माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदये ॥ १०० ॥

इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्त-शिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१ ॥

तत्र प्रकाशमानं तारानिकरैश्च (सर्वतस्सेव्यम् ) परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दलमन्तः कलयामि कुन्दसितमिन्दुम् ॥ १०२ ॥

शृङ्गारसालमीडे शृङ्गोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि महितां शृङ्गारपूर्विकां परिखाम् ॥ १०३ ॥

तत्र मणिनौस्थिताभिस्तपनीयारचितशृङ्गहस्ताभिः ।
शृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ १०४ ॥

शृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ १०५ ॥

मणिसदन सालयोरधिमध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६ ॥

मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः ।
सन्ततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ १०७ ॥

पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकलकूलङ्कषनिनदनिचयकमनीयाम् ॥ १०८ ॥

पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् ।
देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः ।
वलयितमूर्तिर्भगवान् वह्निः कोशोन्नतश्चिरं पायात् ॥ १०९ ॥

तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ ११० ॥

तस्मिन् दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्यम् ।
चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११ ॥

अमृते तस्मिन्नभितो विहरन्त्यो विविधतरणिभाजः ।
षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ ११२ ॥

तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिलाः कलाश्च सन्तापम् ॥ ११३ ॥

कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४ ॥

पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो भवन्तु भासा प्रदीपितजगन्ति ॥ ११५ ॥

सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥ ११६ ॥

तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७ ॥

तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ ११८ ॥

भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः सचिवेशान्याः समस्तवन्द्यायाः ॥ ११९ ॥

कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शताङ्कमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो रुचिरशलाका प्रपञ्चकञ्चुकितम् ॥ १२० ॥

परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥ १२१ ॥

प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥ १२२ ॥

योजनयुगलाभोगा तत्कोशपरिणाहयैव भित्त्या च ।
चिन्तामणिगृह-भूमिर्जीयादाम्नायमयचतुर्द्वारा ॥ १२३ ॥

द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥ १२४ ॥

मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् १२५ ॥

चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मामवन्तु देवी प्रभास्वरूपिण्यः ॥ १२६ ॥

अणिमादिसिद्धिफलकस्योपरिहरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाय मातरोऽस्माकम् ॥ १२७ ॥

तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः ।
सङ्क्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दशमुद्राः ॥ १२८ ॥

फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यन्तु प्रकटाख्यास्तासां कर्त्रीं च भगवती त्रिपुरा ॥ १२९ ॥

तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखण्डाः ॥ १३० ॥

सर्वाशापरिपूरकचक्रेऽस्मिन् गुप्तयोगिनी सेव्याः ।
त्रिपुरेशी मम दुरितं तुद्यात् कण्ठावलम्बिमणिहारा ॥ १३१ ॥

तस्योपरि मणिपीठे ताम्राम्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२ ॥

सङ्क्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्री गुप्तराख्याः गोपायतुमां कृपार्द्रया दृष्ट्या ॥ १३३ ॥

सङ्क्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणीरन्तः कलयामि यौवनोन्मत्ताः ॥ १३४ ॥

सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च सम्प्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५ ॥

मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये ।
सन्ततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ १३६ ॥

सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७ ॥

तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वज्ञाद्या देव्यः सकलाः सम्पादयन्तु मम कीर्तिम् ॥ १३८ ॥

चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् ।
मनसि निगर्भासहितां मन्ये त्रिपुरमालिनी देवीम् ॥ १३९ ॥

सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्याः शक्तीः सिन्दूररेणुशोणरुचः ॥ १४० ॥

श्रीसर्वरोगहारिणिचक्रेऽस्मिन्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१ ॥

वशिनीगृहोपरिष्टाद् विंशतिहस्तोन्नते महापीठे ।
शमयन्तु शत्रुबृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२ ॥

शस्त्रसदनोपरिष्टा वलये वलवैरिरत्नसङ्घटिते ।
कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ १४३ ॥

चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री ।
त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ १४४ ॥

कामेश्वरीगृहोपरिवलये विविधमनुसम्प्रदायज्ञाः ।
चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥ १४५ ॥

नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याःकलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६ ॥

नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७ ॥

सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारां मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८ ॥

परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः ।
मायामयी यवनिका मम दुरितं हरतु मेचकच्छाया ॥ १४९ ॥

मञ्चस्योपरि लम्बन्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ १५० ॥

पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥ १५१ ॥

फलकं सदाशिवमयं प्रणौमि सिन्दूररेणुकिरणाभम् ।
आरभ्याङ्गेशीनां सदनात्कलितं च रत्नसोपानम् ॥ १५२ ॥

पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यङ्कोपरिघटितं पातु चिरं हंसतूलशयनं नः ॥ १५३ ॥

तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तपुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४ ॥

सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् ।
कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५ ॥

पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गितशफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ १५६ ॥

मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधरविसृमरस्मित-किशोरसञ्चारम् ॥ १५७ ॥

आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभंवीचीद्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ १५८ ॥

पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ १५९ ॥

तस्याङ्कभुवि निषण्णां तरुणकदम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६० ॥

कुङ्कुमललामभास्वन्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१ ॥

अङ्कुरितमन्दहासमरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुतकपोलसङ्क्रान्तकनकताटङ्काम् ॥ १६२ ॥

कर्पूरसान्द्रवीटीकबलित वदनारविन्द कमनीयाम् ।
कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३ ॥

कल्हारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलसत् काञ्चनमयकटकवलयसन्दोहाम् ॥ १६४ ॥

पाणिचतुष्टय विलसत् पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५ ॥

अणुदायादवलग्नामम्बुदशोभासनाभि-रोमलताम् ।
माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६ ॥

करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७ ॥

कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८ ॥

आदिमरसावलम्बामनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १६९ ॥

कस्तु क्षितौ पटीयान्वस्तुस्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरन्तनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ १७० ॥

प्रभुसम्मितोक्तिगम्ये परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किञ्चन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१ ॥

मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् ।
कैरविणीविटचूडं कैवल्यायास्तु किञ्चन महो नः ॥ १७२ ॥

अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३ ॥

भृङ्गरुचिसङ्गरकरापाङ्गं शृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलमभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४ ॥

प्रपदजितकूर्ममूर्मिलकरुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शम्भोः किञ्चन नर्म मम शर्मनिर्मातु ॥ १७५ ॥

कालकुरलालिकालिमकन्दलविजितालिवि धृतमणिवालि ।
मिलतु हृदि पुलिनजलघनं बहुलित गलगरलकेलि किमपि महः ॥ १७६ ॥

कुङ्कुमतिलकितफाला कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ १७७ ॥

पुष्पन्धयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥ १७८ ॥

तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥ १७९ ॥

असितकचमायताक्षं कुसुमशरं कुलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ॥ १८० ॥

कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दि कण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ १८१ ॥

अरविन्दकान्त्यरुन्तुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः ।
छन्दः कन्दलमन्दिरमन्तः पुरमैन्दुशेखरं वन्दे ॥ १८२ ॥

बिम्बनिकुरुम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकुचं बिम्बोकं कमपि चुम्बतु मनो मे ॥ १८३ ॥

कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः सम्पादितकान्त्यलङ्कृतदिगन्तम् ॥ १८४ ॥

शम्पारुचिभरगर्हा सम्पादक क्रान्ति कवचित दिगन्तम् ।
सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ १८५ ॥

उद्यद्दिनकरशोणानुत्पलबन्धुस्तनन्धयापीडान् ।
करकलितपुण्ड्रचापान् कलये कानपि कपर्दिनः प्राणान् ॥ १८६ ॥

रशनालसज्जघनया रसनाजीवातु-चापभासुरया ।
घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनय ॥ १८७ ॥

सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो नासामणि शोभिवदनया भरितम् ॥ १८८ ॥

नवयावकाभसिचयान्वितया गजयानया दयापरया ।
धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥ १८९ ॥

अलमलमकुसुमबाणैः बिम्बशोणैः पुण्ड्रकोदण्डैः ।
अकुमुदबान्धवचूडैरन्यैरिह जगति दैवतं मन्यैः ॥ १९० ॥

कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ १९१ ॥

नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दित गिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ १९२ ॥

कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरन्तनगिरां भूम्ने कस्मैचिदादधे प्रणतिम् ॥ १९३ ॥

कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलङ्कषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४ ॥

कोकणदशोण चरणात् कोमल कुरलालि विजितशैवालात् ।
उत्पलसुगन्धि नयनादुररीकुर्मो न देवतमान्याम् ॥ १९५ ॥

आपाटलाधराणामानीलस्निग्धबर्बरकचानाम् ।
आम्नाय जीवनानामाकूतानां हरस्य दासोऽस्मि ॥ १९६ ॥

पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनोमदीयं कास्वपि कामारि जीवनाडीषु ॥ १९७ ॥

ललिता पातु शिरो मे ललाटाम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८ ॥

पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्टमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९ ॥

कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् ।
शृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥ २०० ॥

स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ २०१ ॥

कोदण्डिनी च वक्षः कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखण्डा ॥ २०२ ॥

ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात् पादौ च पाशसृणि हस्ता ॥ २०३ ॥

प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४ ॥

भार्या रक्षतु गौरी पायात् पुत्रांश्च बिन्दुगृहपीठा ।
श्रीविद्या च यशो मे शीलं चाव्याश्चिरं महाराज्ञी ॥ २०५ ॥

पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिंमयि समयमयि प्राणमयि शिवे पाहि ॥ २०६ ॥

कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ २०७ ॥

अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोलाः ॥ २०८ ॥

वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् ॥ २०९ ॥

कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥ २१० ॥

शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ २११ ॥

मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रवतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥ २१२ ॥

ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ २१३ ॥

सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ २१४ ॥

॥ इति महर्षिदुर्वासः प्रणीतं ललितास्तवरत्नं सम्पूर्णम् ॥

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Not allowed
%d bloggers like this: