Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य पुरन्दर ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । मम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्वकार्यसिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् –
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।
वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्
चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥
कवचम् –
चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥
घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥
बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥
ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥ ५ ॥
इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥ ६ ॥
इति पद्मपुराणे केतुकवचम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.