Sri Hayagriva Stotram – श्री हयग्रीव स्तोत्रम्



श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥

स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलं
हताशेषावद्यं हयवदनमीडीमहि महः ॥ २ ॥

समाहारः साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ३ ॥

प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥

विशुद्धविज्ञानघनस्वरूपं
विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ॥ ५ ॥

अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥

दाक्षिण्यरम्या गिरिशस्य मूर्तिः
देवी सरोजासनधर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७ ॥

मन्दोऽभविष्यन्नियतं विरिञ्चो
वाचां निधे वञ्चितभागधेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८ ॥

वितर्कडोलां व्यवधूय सत्त्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदेशेश्वराणां
अस्पृष्टडोलायितमाधिराज्यम् ॥ ९ ॥

अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्डसारैर्हविषां प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥ १० ॥

यन्मूलमीदृक् प्रतिभाति तत्त्वं
या मूलमाम्नायमहाद्रुमाणाम् ।
तत्त्वेन जानन्ति विशुद्धसत्त्वाः
त्वामक्षरामक्षरमातृकां त्वाम् ॥ ११ ॥

अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२ ॥

मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्धसिन्धोः ॥ १३ ॥

मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानसराजहंसम् ।
स्वयं पुरोभावविवादभाजः
किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥

अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर्मयूखैः ।
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥

स्वामिन् भवद्ध्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलं
अङ्गेष्विवानन्दथुमङ्कुरन्तम् ॥ १६ ॥

स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यानचन्द्रोदयवर्धमानम् ।
अमान्तमानन्दपयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥

स्वैरानुभावास्त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ॥ १८ ॥

प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिःश्रेयससम्पदो मे ।
समेधिषीरंस्तव पादपद्मे
सङ्कल्पचिन्तामणयः प्रणामाः ॥ १९ ॥

विलुप्तमूर्धन्यलिपिक्रमाणां
सुरेन्द्रचूडापदलालितानाम् ।
त्वदङ्घ्रिराजीवरजःकणानां
भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥

परिस्फुरन्नूपुरचित्रभानु-
-प्रकाशनिर्धूततमोनुषङ्गम् ।
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ॥ २१ ॥

त्वत्किङ्करालङ्करणोचितानां
त्वयैव कल्पान्तरपालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२ ॥

सञ्चिन्तयामि प्रतिभादशास्थान्
सन्धुक्षयन्तं समयप्रदीपान् ।
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ॥ २३ ॥

चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४ ॥

प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥ २५ ॥

तमांसि भित्त्वा विशदैर्मयूखैः
सम्प्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥

दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाममृतं क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ॥ २७ ॥

विशेषवित्पारिषदेषु नाथ
विदग्ध गोष्ठीसमराङ्गणेषु ।
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ॥ २८ ॥

त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ॥ २९ ॥

नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥ ३० ॥

अकम्पनीयान्यपनीतिभेदैः
अलङ्कृषीरन् हृदयं मदीयम् ।
शङ्काकलङ्कापगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥

व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघमहिमा मानसे वागधीशः ॥ ३२ ॥

वागर्थसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३ ॥

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

इति श्रीवेदान्तदेशिक कृत श्री हयग्रीव स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed