Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगस्त्य उवाच ।
वाजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः ।
ललितापरमेशान्या देहि कर्णरसायनम् ॥ १ ॥
हयग्रीव उवाच ।
सिंहासनेशी ललिता महाराज्ञी पराङ्कुशा ।
चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ २ ॥
सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा ।
चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३ ॥
कामराजप्रिया कामकोटिका चक्रवर्तिनी ।
महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ४ ॥
कुलनाथाऽऽम्नायनाथा सर्वाम्नायनिवासिनी ।
शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ५ ॥
स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् ।
ते प्राप्नुवन्ति सौभाग्यमष्टौसिद्धीर्महद्यशः ॥ ६ ॥
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने अष्टादशोऽध्याये श्रीललिता पञ्चविंशतिनाम स्तोत्रम् ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.