Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय ।
वेणुस्वनामोदितगोपिकाय नमोऽस्तु गोपीजनवल्लभाय ॥ १ ॥
किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय ।
स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय ॥ २ ॥
दिव्याङ्गनाबृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय ।
त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय ॥ ३ ॥
रत्नादिमूलालयसङ्गताय कल्पद्रुमच्छायसमाश्रिताय ।
हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४ ॥
श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय ।
सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५ ॥
दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिञ्छच्छविशोभिताय ।
वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६ ॥
मुनीन्द्रबृन्दैरभिसम्श्रिताय क्षरत्पयोगोकुलसङ्कुलाय ।
धर्मार्थकामामृतसाधकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७ ॥
एतत्समस्तामधिदेवताय भक्तस्य चिन्तामणिसाधकाय ।
अशेषदुःखाभयभेषजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८ ॥
इति श्री हरिदासोदितं श्रीगोपीजनवल्लभाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.