Sri Ghatikachala Yoga Narasimha Mangalam – श्री घटिकाचल योगनृसिंह मङ्गलम्


घटिकाचलशृङ्गाग्र विमानोदरवासिने ।
निखिलामरसेव्याय नरसिंहाय मङ्गलम् ॥ १ ॥

उदीचीरङ्गनिवसत् सुमनस्तोमसूक्तिभिः ।
नित्याभिवृद्धयशसे नरसिंहाय मङ्गलम् ॥ २ ॥

सुधावल्लीपरिष्वङ्गसुरभीकृतवक्षसे ।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥

सर्वारिष्टविनाशाय सर्वेष्टफलदायिने ।
घटिकाद्रिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥

महागुरुमनःपद्ममध्यनित्यनिवासिने ।
भक्तोचिताय भवतात् मङ्गलं शाश्वतीः समाः ॥ ५ ॥

श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे ।
नन्दनन्दनसुन्दर्यै गोदायै नित्यमङ्गलम् ॥ ६ ॥

श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ ७ ॥

पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ ८ ॥

श्रीमते रम्यजामातृमुनीन्द्राय महात्मने ।
श्रीरङ्गवासिने भूयात् नित्यश्रीः नित्यमङ्गलम् ॥ ९ ॥

सौम्यजामातृयोगीन्द्र चरणाम्बुजषट्पदम् ।
देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ १० ॥

वाधूलश्रीनिवासार्यतनयं विनयाधिकम् ।
प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासमहागुरुम् ॥ ११ ॥

चण्डमारुतवेदान्तविजयादिस्वसूक्तिभिः ।
वेदान्तरक्षकायास्तु महाचार्याय मङ्गलम् ॥ १२ ॥

इति श्री घटिकाचल योगनृसिंह मङ्गल स्तोत्रम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed