Sri Lakshmi Narasimha Mangalam – श्री लक्ष्मीनृसिंह मङ्गलम्


अपारकरुणासिन्धो निवारणपरानिमान् ।
विदारय हिरण्याक्ष विदारण नखायुधैः ॥ १ ॥

सर्ववेदान्तवेद्याय कारणाय महात्मने ।
सर्वलोकशरण्याय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥

शेषिने सर्ववस्तूनां वाञ्छितार्थप्रदायिने ।
संश्रितानां सदा भूयात् श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥

पवित्राणां पवित्राय प्रापकाय फलात्मने ।
भद्राणामपि भद्राय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥

आदिवण् शठकोपाख्यैर्मुनिवर्यैर्महात्मभिः ।
समर्चिताय नित्याय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥

जगज्जन्मादिलक्ष्याय स्वेच्छास्वीकृतमूर्तये ।
विध्वस्ताखिलहेयाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥

ज्ञानानन्दस्वरूपाय ज्ञानशक्त्यादिसिन्धवे ।
बन्धवे सर्वलोकानां श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥

कायाधव परित्राण भावित स्तम्भजन्मने ।
ब्रह्मेन्द्रादिस्तुताय स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥

गुणलेशविहीनस्य सर्वहेयास्पदस्य मे ।
मङ्क्षुक्षन्त्रेऽप्यनन्तान् स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ९ ॥

श्रीनिवासयतीन्द्रोक्तं लक्ष्मीनृहरिमङ्गलम् ।
ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ १० ॥

इति श्री लक्ष्मीनृसिंह मङ्गलम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed