Sri Gayatri Kavacham 2 – श्री गायत्री कवचम् – २


ओं अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः बीजम्, भुवः शक्तिः, स्वः कीलकं, गायत्री प्रीत्यर्थं जपे विनियोगः ।

ध्यानम् –
पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।
सावित्रीं ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥ १ ॥

त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।
वराऽभयाङ्कुशकशां हेमपात्राक्षमालिकाम् ॥ २ ॥

शङ्खचक्राब्जयुगलं कराभ्यां दधतीं पराम् ।
सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥ ३ ॥

ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ ४ ॥

ब्रह्मोवाच ।
विश्वामित्र महाप्राज्ञ गायत्रीकवचं शृणु ।
यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥ ५ ॥

सावित्री मे शिरः पातु शिखायाममृतेश्वरी ।
ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ ६ ॥

कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिका ।
गायत्री वदनं पातु शारदा दशनच्छदौ ॥ ७ ॥

द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।
साङ्ख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥ ८ ॥

चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।
स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ ९ ॥

उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया ।
जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ १० ॥

पार्श्वौ मे पातु पद्माक्षी गुह्यं मे गोप्त्रिकाऽवतु । [गो]
ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकाऽवतु ॥ ११ ॥

जङ्घयोः पातु चाक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।
सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ १२ ॥

सर्वाङ्गं वेदमाता च पातु मे सर्वदाऽनघा । [जननी]
इत्येतत्कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ॥ १३ ॥

पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ।
त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानववाप्नुयात् ॥ १४ ॥

सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ।
सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् ॥ १५ ॥

इति श्रीविश्वामित्रसंहितोक्तं श्री गायत्री कवचम् ।


గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed