Sri Ganesha Pancha Chamara Stotram – श्री गणेशपञ्चचामर स्तोत्रम्



नमो गणाधिपाय ते त्वया जगद्विनिर्मितं
निजेच्छया च पाल्यतेऽधुना वशे तव स्थितम् ।
त्वमन्तरात्मकोऽस्यमुष्य तन्मयि स्थितः पुनीहि
मां जगत्पतेऽम्बिकातनूज नित्य शाङ्करे ॥ १ ॥

गणेश्वरः कृपानिधिर्जगत्पतिः परात्परः
प्रभुः स्वलीलयाऽभवच्छिवान्मदावलाननः ।
गिरीन्द्रजातनूभवस्तमेव सर्वकर्मसु
प्रपूजयन्ति देहिनः समाप्नुवन्ति चेप्सितम् ॥ २ ॥

चतुःपुमर्थदायिभिश्चतुष्करैर्विलम्बिना
सहोदरेण सोदरेण पद्मजाण्ड सन्ततेः ।
पदद्वयेन चापदां निवारकेण भासुरं
भजे भवात्मजं प्रभुं प्रसन्नवक्त्रमद्वयम् ॥ ३ ॥

बलिष्ठमूषिकाधिराजपृष्ठनिष्ठविष्ठर-
-प्रतिष्ठितं गणप्रबर्हपारमेष्ठ्यशोभितम् ।
गरिष्ठमात्मभक्तकार्य विघ्नवर्ग भञ्जने
पटिष्ठमाश्रितावने भजामि विघ्ननायकम् ॥ ४ ॥

भजामि शूर्पकर्णमग्रजं गुहस्य शङ्करा-
-त्मजं गजाननं समस्तदेवबृन्दवन्दितम् ।
महान्तरायशान्तिदं मतिप्रदं मनीषिणां
गतिं श्रुतिस्मृतिस्तुतं गणेश्वरं मदीश्वरम् ॥ ५ ॥

यदङ्घ्रिपल्लवस्मृतिर्निरन्तराय सिद्धिदा
यमेव बुद्धिशालिनः स्मरन्त्यहर्निशं हृदि ।
यमाश्रितस्तरत्यलङ्घ्य कालकर्मबन्धनं
तमेव चित्सुखात्मकं भजामि विघ्ननायकम् ॥ ६ ॥

कराम्बुजैः स्फुरद्वराभयाक्षसूत्र पुस्तकं
सृणिं सबीजपूरकाब्जपाशदन्तमोदकान् ।
वहन्किरीटकुण्डलादि दिव्यभूषणोज्ज्वलो
गजाननो गणाधिपः प्रभुर्जयत्यहर्निशम् ॥ ७ ॥

गिरीन्द्रजामहेशयोः परस्परानुरागजं
निजानुभूतचित्सुखं सुरैरुपास्य दैवतम् ।
गणेश्वरं गुरुं गुहस्य विघ्नवर्गघातिनं
गजाननं भजाम्यहं न दैवमन्यमाश्रये ॥ ८ ॥

गणेशपञ्चचामरस्तुतिं पठध्वमादरात्
मनीषितार्थदायकं मनीषिणः कलौ युगे ।
निरन्तरायसिद्धिदं चिरन्तनोक्तिसम्मतं
निरन्तरं गणेशभक्ति शुद्धचित्तवृत्तयः ॥ ९ ॥

इति श्रीसुब्रह्मण्ययोगि विरचिता श्रीगणेशपञ्चचामरस्तुतिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed