Sri Ganesha Pancha Chamara Stotram – श्री गणेशपञ्चचामर स्तोत्रम्


नमो गणाधिपाय ते त्वया जगद्विनिर्मितं
निजेच्छया च पाल्यतेऽधुना वशे तव स्थितम् ।
त्वमन्तरात्मकोऽस्यमुष्य तन्मयि स्थितः पुनीहि
मां जगत्पतेऽम्बिकातनूज नित्य शाङ्करे ॥ १ ॥

गणेश्वरः कृपानिधिर्जगत्पतिः परात्परः
प्रभुः स्वलीलयाऽभवच्छिवान्मदावलाननः ।
गिरीन्द्रजातनूभवस्तमेव सर्वकर्मसु
प्रपूजयन्ति देहिनः समाप्नुवन्ति चेप्सितम् ॥ २ ॥

चतुःपुमर्थदायिभिश्चतुष्करैर्विलम्बिना
सहोदरेण सोदरेण पद्मजाण्ड सन्ततेः ।
पदद्वयेन चापदां निवारकेण भासुरं
भजे भवात्मजं प्रभुं प्रसन्नवक्त्रमद्वयम् ॥ ३ ॥

बलिष्ठमूषिकाधिराजपृष्ठनिष्ठविष्ठर-
-प्रतिष्ठितं गणप्रबर्हपारमेष्ठ्यशोभितम् ।
गरिष्ठमात्मभक्तकार्य विघ्नवर्ग भञ्जने
पटिष्ठमाश्रितावने भजामि विघ्ननायकम् ॥ ४ ॥

भजामि शूर्पकर्णमग्रजं गुहस्य शङ्करा-
-त्मजं गजाननं समस्तदेवबृन्दवन्दितम् ।
महान्तरायशान्तिदं मतिप्रदं मनीषिणां
गतिं श्रुतिस्मृतिस्तुतं गणेश्वरं मदीश्वरम् ॥ ५ ॥

यदङ्घ्रिपल्लवस्मृतिर्निरन्तराय सिद्धिदा
यमेव बुद्धिशालिनः स्मरन्त्यहर्निशं हृदि ।
यमाश्रितस्तरत्यलङ्घ्य कालकर्मबन्धनं
तमेव चित्सुखात्मकं भजामि विघ्ननायकम् ॥ ६ ॥

कराम्बुजैः स्फुरद्वराभयाक्षसूत्र पुस्तकं
सृणिं सबीजपूरकाब्जपाशदन्तमोदकान् ।
वहन्किरीटकुण्डलादि दिव्यभूषणोज्ज्वलो
गजाननो गणाधिपः प्रभुर्जयत्यहर्निशम् ॥ ७ ॥

गिरीन्द्रजामहेशयोः परस्परानुरागजं
निजानुभूतचित्सुखं सुरैरुपास्य दैवतम् ।
गणेश्वरं गुरुं गुहस्य विघ्नवर्गघातिनं
गजाननं भजाम्यहं न दैवमन्यमाश्रये ॥ ८ ॥

गणेशपञ्चचामरस्तुतिं पठध्वमादरात्
मनीषितार्थदायकं मनीषिणः कलौ युगे ।
निरन्तरायसिद्धिदं चिरन्तनोक्तिसम्मतं
निरन्तरं गणेशभक्ति शुद्धचित्तवृत्तयः ॥ ९ ॥

इति श्रीसुब्रह्मण्ययोगि विरचिता श्रीगणेशपञ्चचामरस्तुतिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed