Sri Ganesha Manasa Puja – श्री गणेश मानस पूजा


गृत्समद उवाच ।
विघ्नेशवीर्याणि विचित्रकाणि
बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १ ॥

एवं मया प्रार्थित विघ्नराज-
-श्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमन्ति देवाः
शम्भ्वादयो योगिमुखास्तथाहम् ॥ २ ॥

शौचादिकं ते परिकल्पयामि
हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥ ३ ॥

द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः ।
सम्भाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥ ४ ॥

रत्नैः सुदीप्तैः प्रतिबिम्बितं तं
पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥ ५ ॥

सिद्ध्या च बुद्ध्या सह विघ्नराज
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥

ततः सुवस्त्रेण गणेशमादौ
सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरु ते पदाब्जे ॥ ७ ॥

कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥ ८ ॥

प्रवालमुक्ताफलहाटकाद्यैः
सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज ढुण्ढे ॥ ९ ॥

सौगन्ध्ययुक्तं मधुपर्कमाद्यं
सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायक त्वं
भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥

सुवासितं चम्पकजातिकाद्यै-
-स्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन प्रविमर्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥ ११ ॥

ततः सुखोष्णेन जलेन चाह-
-मनेकतीर्थाहृतकेन ढुण्ढे ।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥ १२ ॥

ततः पयःस्नानमचिन्त्यभाव
गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥ १३ ॥

ततो घृतस्नानमपारवन्द्य
सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥ १४ ॥

सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ
विघ्नेश मायाभ्रमं वारयाशु ॥ १५ ॥

सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु ॥ १६ ॥

ततस्तु सूक्तैर्मनसा गणेशं
सम्पूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्म-
-णस्पत्यकैस्तं ह्यभिषेचयामि ॥ १७ ॥

ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे
ह्याचान्तमेवं कुरु विघ्नराज ॥ १८ ॥

अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥

आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो यथा तारकसम्युतं तु ॥ २० ॥

यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥ २१ ॥

आचान्तमेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि विश्वं
प्रभो खेलकरं सदा ते ॥ २२ ॥

उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै
कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३ ॥

सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥

विचित्ररत्नैः कनकेन ढुण्ढे
युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥

शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
-द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥

सुवर्णरत्नैश्च युतानि ढुण्ढे
सदैकदन्ताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश
दत्तानि दन्तस्य च शोभनार्थम् ॥ २७ ॥

रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य ।
सम्भूषय त्वं कटकानि नाथ
चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८ ॥

विचित्ररत्नैः खचितं सुवर्ण-
-सम्भूतकं गृह्य मया प्रदत्तम् ।
तथाङ्गुलीष्वङ्गुलिकं गणेश
चित्तेन संशोभय तत्परेश ॥ २९ ॥

विचित्ररत्नैः खचितानि ढुण्ढे
केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३० ॥

प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला
उरोदरे शोभय विघ्नराज ॥ ३१ ॥

चन्द्रं ललाटे गणनाथ पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसम्युतं ते
भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥

चिन्तामणिं चिन्तितदं परेश
हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च
विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥

नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश ॥ ३४ ॥

कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥

हेरम्ब ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥ ३६ ॥

इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि ।
सम्भूषयाम्येव त्वदङ्गकेषु
विचित्रधातुप्रभवानि ढुण्ढे ॥ ३७ ॥

सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त
गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८ ॥

लिप्तेषु वैचित्र्यमथाष्टगन्धै-
-रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥ ३९ ॥

घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
भक्तान् सुभक्तिप्रिय दीनबन्धो ॥ ४० ॥

गृहाण भो चम्पकमालतीनि
जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥ ४१ ॥

पुष्पोपरि त्वं मनसा गृहाण
हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन प्रकल्पितानि
ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥

दूर्वाङ्कुरान्वै मनसा प्रदत्तां-
-स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं
हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३ ॥

दशाङ्गभूतं मनसा मया ते
धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश
सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४ ॥

दीपं सुवर्त्या युतमादरात्ते
दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
-तैलादिसम्भूतममोघदृष्टे ॥ ४५ ॥

भोज्यं च लेह्यं गणराज पेयं
चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥ ४६ ॥

सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश
पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७ ॥

ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८ ॥

पुनस्तथाचम्य सुवासितं च
दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
सम्प्रोञ्छनं हस्तमुखे करोमि ॥ ४९ ॥

द्राक्षादिरम्भाफलचूतकानि
खार्जूरकार्कन्धुकदाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि ढुण्ढे ॥ ५० ॥

पुनर्जलेनैव करादिकं ते
सङ्क्षालयामि मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश ॥ ५१ ॥

अष्टाङ्गयुक्तं गणनाथ दत्तं
ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थम् ॥ ५२ ॥

ततो मया कल्पितके गणेश
महासने रत्नसुवर्णयुक्ते ।
मन्दारकार्पासकयुक्तवस्त्रै-
-रनर्घ्यसञ्छादितके प्रसीद ॥ ५३ ॥

ततस्त्वदीयावरणं परेश
सम्पूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामार्थमनाथबन्धो ॥ ५४ ॥

गृहाण लम्बोदर दक्षिणां ते
ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
पाहि प्रभो विश्वमिदं गणेश ॥ ५५ ॥

राजोपचारान्विविधान्गृहाण
हस्त्यश्वछत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे
ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६ ॥

दानाय नानाविधरूपकांस्ते
गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजङ्गमांश्च
हेरम्ब मां तारय मोहभावात् ॥ ५७ ॥

मन्दारपुष्पाणि शमीदलानि
दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदर दीनपाल
गृहाण भक्तं कुरु मां पदे ते ॥ ५८ ॥

ततो हरिद्रामबिरं गुलालं
सिन्दूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
-र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९ ॥

ततः शुकाद्याः शिवविष्णुमुख्या
इन्द्रादयः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६० ॥

वामाङ्गके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपा परमार्थभूता ॥ ६१ ॥

गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२ ॥

प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः
शुकादयस्तं स्म पुरो भजन्ते ॥ ६३ ॥

गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
-च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥

इत्यादिनानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥

चतुर्भुजं पाशधरं गणेशं
तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयङ्करं तं
महोदरं चैकरदं गजास्यम् ॥ ६६ ॥

सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम् ।
ध्यायेद्गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥

ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराज हस्ते
समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८ ॥

आरार्तिकां कर्पूरकादिभूता-
-मपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९ ॥

वेदेषु विघ्नेश्वरकैः सुमन्त्रैः
सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्त-
-मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७० ॥

अपारवृत्या स्तुतिमेकदन्तं
गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः
सर्वैः परेशाधिपते मया ते ॥ ७१ ॥

प्रदक्षिणा मानसकल्पितास्ता
गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥

नतिं ततो विघ्नपते गृहाण
साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३ ॥

न्यूनातिरिक्तं तु मया कृतं चे-
-त्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्
सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४ ॥

क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
सम्प्रार्थयामि मनसा गणेश ॥ ७५ ॥

ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य ।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ ७६ ॥

उत्थाय विघ्नेश्वर एव तस्मा-
-द्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥ ७७ ॥

सर्वान्नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
-र्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥

एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥

गणेशपादोदकपानकं च
ह्युच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥

यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥

ततस्तु शय्यां परिकल्पयामि
मन्दारकार्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां
ते गृहाण निद्रां कुरु विघ्नराज ॥ ८२ ॥

सिद्ध्या च बुद्ध्या सहितं गणेश
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ ८३ ॥

एतादृशं सौख्यममोघशक्ते
देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तिरसलालसोऽहम् ॥ ८४ ॥

गार्ग्य उवाच ।
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५ ॥

य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसम्युतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥

यं यमिच्छति तं तं वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८ ॥

इति श्रीमदान्त्ये मौद्गल्ये गणेशमानसपूजा सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed