Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
विना तपो विना ध्यानम् विना होमं विना जपम् ।
अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १ ॥
महेश्वर उवाच ।
मन्त्राक्षरावलिस्तोत्रं महासौभाग्यवर्धनम् ।
दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २ ॥
महागणपतिप्रीतिप्रतिपादकमञ्जसा ।
कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३ ॥
ओङ्कारवलयाकारं अच्छकल्लोलमालिकम् ।
ऐक्षवं चेतसा वन्दे सिन्धुं सन्धुक्षितस्वनम् ॥ ४ ॥
श्रीमन्तमिक्षुजलधेः अन्तरभ्युदितं नुमः ।
मणिद्वीपं महाकारं महाकल्पं महोदयम् ॥ ५ ॥
ह्रीप्रदेन महाधाम्ना धाम्नामीशे विभारके ।
कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६ ॥
क्लीबस्यापि स्मरोन्मादकारिशृङ्गारशालिनि ।
तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७ ॥
ग्लौकलाभिरिवाच्छाभिस्तीव्रादिनवशक्तिभिः ।
जुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८ ॥
गम्भीरमिव तत्राब्धिं वसन्तं त्र्यश्रमण्डले ।
उत्सङ्गगतलक्ष्मीकं उद्यत्तिग्मांशुपाटलम् ॥ ९ ॥
गदेक्षुकार्मुकरुजाचक्राम्बुजगुणोत्पलैः ।
व्रीह्यग्रनिजदन्ताग्रकलशीमातुलुङ्गकैः ॥ १० ॥
णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जकैः ।
एतैरेकादशकरान् अलङ्कुर्वाणमुन्मदम् ॥ ११ ॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।
परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२ ॥
तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।
रमारमेशौ विमृशाम्यशेषशुभदायकौ ॥ १३ ॥
येन दक्षिणभागस्थन्यग्रोधतलमाश्रितम् ।
साकल्पं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४ ॥
वरसम्भोगरुचिरौ पश्चिमे पिप्पलाश्रयौ ।
रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ । १५ ॥
रममाणौ गणेशानोत्तरदिक्फलिनीतले ।
भूभूधरावुदाराभौ भजे भुवनपालकौ ॥ १६ ॥
वलमानवपुर्ज्योतिः कडारितककुप्तटीः ।
हृदयाद्यङ्गषड्देवीरङ्गरक्षाकृते भजे ॥ १७ ॥
रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।
ऋद्ध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८ ॥
दलत्कपोलविगलन्मदधारावलाहकम् ।
समृद्धितटिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९ ॥
सकान्तिं कान्तिलतिकापरिरब्धतनुं भजे ।
भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २० ॥
वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।
दुर्मुखं मदनावत्या निर्मितालिङ्गनामृतम् ॥ २१ ॥
जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रदौ ।
अहं मदद्रवाविघ्नौ हतये त्वेनसां श्रये ॥ २२ ॥
नवशृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।
द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३ ॥
मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् ।
वसुधाराशङ्खनिधी वाक्पुष्पाञ्जलिभिः स्तुमः ॥ २४ ॥
वर्षन्तौ रत्नवर्षेण वलद्बालातपत्विषौ ।
वरदौ नमतां वन्दे वसुधापद्मशेवधी ॥ २५ ॥
शमिताधिमहाव्याधीः सान्द्रानन्दकरम्बिताः ।
ब्राह्म्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६ ॥
मामवन्तु महेन्द्राद्या दिक्पाला दर्पशालिनः ।
संनताः श्रीगणाधीशं सवाहायुधशक्तयः ॥ २७ ॥
नवीनपल्लवच्छायादायादवपुरुज्ज्वलम् ।
मेदस्वि मदनिष्यन्दस्रोतस्वि कटकोटरम् ॥ २८ ॥
यजमानतनुं यागरूपिणं यज्ञपूरुषम् ।
यमं यमवतामर्च्यं यत्नभाजामदुर्लभम् ॥ २९ ॥
स्वारस्यपरमानन्दस्वरूपं स्वयमुद्गतम् ।
स्वयं वेद्यं स्वयं शक्तं स्वयं कृत्यत्रयाकरम् ॥ ३० ॥
हारकेयूर मुकुटकनकाङ्गद कुण्डलैः ।
अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१ ॥
मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि ।
समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२ ॥
इति श्री गणपति मन्त्राक्षरावलि स्तोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

