Sri Ganapathi Geeta – श्री गणपति गीता


क्व प्रासूत कदा त्वां गौरी न प्रामाण्यं तव जनने ।
विप्राः प्राहुरजं गणराजं यः प्राचामपि पूर्वतमः ॥ १ ॥

नासि गणपते शङ्करात्मजो भासि तद्वदेवाखिलात्मकः ।
ईशता तवानीशता नृणां केशवेरिता साशयोक्तिभिः ॥ २ ॥

गजमुख तावकमन्त्र महिम्ना सृजति जगद्विधिरनुकल्पम् ।
भजति हरिस्त्वां तदवनकृत्ये यजति हरोऽपि विरामविधौ ॥ ३ ॥

सुखयति शतमखमुखसुरनिकरानखिलक्रतु विघ्नघ्नोऽयम् ।
निखिलजगज्जीवकजीवनदः स खलु यतः पर्जन्यात्मा ॥ ४ ॥

प्रारम्भे कार्याणां हेरम्बं यो ध्यायेत् ।
पारं यात्येव कृतेरारादाप्नोति सुखम् ॥ ५ ॥

गौरीसूनोः पादाम्भोजे लीना चेतोवृत्तिर्मे ।
घोरे संसारारण्ये वासः कैलासे वास्तु ॥ ६ ॥

गुहगुरु पदयुगमनिशमभयदम् ।
वहसि मनसि यदि शमयसि दुरितम् ॥ ७ ॥

जय जय शङ्करवरसूनो भयहर भजतां गणराज ।
नय मम चेतस्तव चरणं नियमय धर्मेऽन्तः करणम् ॥ ८ ॥

चलसि चित्त किन्नु विषमविषयकानने
कलय वृत्तिममृत दातृकरिवरानने ।
तुलय खेदमोदयुगलमिदमशाश्वतं
विलय भयमलङ्घ्यमेव जन्मनि स्मृतम् ॥ ९ ॥

सोमशेखरसूनवे सिन्दूरसोदरभानवे
यामिनीपतिमौलये यमिहृदयविरचितकेलये ।
मूषकाधिपगामिने मुख्यात्मनोऽन्तर्यामिने
मङ्गलं विघ्नद्विषे मत्तेभवक्त्रज्योतिषे ॥ १० ॥

अवधीरितदाडिमसुम सौभगमवतु गणेशज्योति-
-र्मामवतु गणेशज्योतिः ।
हस्तचतुष्टयधृत वरदाभय पुस्तकबीजापूरं
धृत पुस्तकबीजापूरम् ॥ ११ ॥

रजताचल वप्रक्रीडोत्सुक गजराजास्यमुदारं
भज श्रीगजराजास्यमुदारम् ।
फणिपरिकृत कटिवलयाभरणं कृणु रे जनहृदिकारणं
तव कृणु रे जनहृदिकारणम् ॥ १२ ॥

यः प्रगे गजराजमनुदिनमप्रमेयमनुस्मरेत् ।
स प्रयाति पवित्रिताङ्गो विप्रगङ्गाद्यधिकताम् ॥ १३ ॥

सुब्रह्मण्यमनीषिविरचिता त्वब्रह्मण्यमपाकुरुते ।
गणपतिगीता गानसमुचिता सम्यक्पठतां सिद्धान्तः ॥ १४ ॥

इति श्रीसुब्रह्मण्ययोगि विरचित श्री गणपति गीता ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed