Sri Dakshayani Stotram – श्री दाक्षायणी स्तोत्रम्



गम्भीरावर्तनाभी मृगमदतिलका वामबिम्बाधरोष्टी
श्रीकान्ताकाञ्चिदाम्ना परिवृत जघना कोकिलालापवाणि ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटीप्राणकान्ता
रम्भोरू सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥

दद्यात्कल्मषहारिणी शिवतनू पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी
लोलाक्षी भवबन्धमोक्षणकरी स्व श्रेयसं सन्ततम् ॥ २ ॥

मध्ये सुधाब्धि मणिमण्टपरत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि नितरां नुतवेदजिह्वाम् ॥ ३ ॥

सन्नद्धां विविधायुधैः परिवृतां प्रान्ते कुमारीगणै-
र्ध्यायेदीप्सितदायिनीं त्रिणयनां सिंहाधिरूढांसितां ।
शङ्खारीषुधनूम्षि चारु दधतीं चित्रायुधां तर्जनीं
वामे शक्तिमणीं महाघमितरे श्री शक्तिकां शूलिनीम् ॥ ४ ॥

किम्शुकीदलविशाललोचनां किञ्चनागरसवल्लिसम्युतां ।
अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५ ॥

आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख
शक्ति त्रिशूलशरचापधरां पुरस्तात् ।
गच्छत्वमम्ब दुरितापद दुष्टकृत्या-
त्संरक्षणाय सततं मम देवि दुर्गे ॥ ६ ॥

दिनकरशशिनेत्री दिव्यरुद्रार्धगात्री
घनसमुचितधात्री कल्पवल्ली सवित्री ।
अनवरतपवित्री चाम्बिका कालरात्री
मुनिविनुतचरित्री मोहिनी शैलपुत्री ॥ ७ ॥

जलरुहसमपाणी सत्कलाबाणतूणी
सुललितमुखवीणा सर्वविद्याप्रवीणा ।
अलघुहतपुराणा ह्यर्थभाषाधुरीणा
अलि समुदयवेणी शैलजा पातु वाणी ॥ ८ ॥

विविधगुणकराली विश्वतत्त्वावराली
शिवहृदयसमेली स्वैरकृन्मन्मथाली ।
नवमणिमयमौली नागरक्षोविभाली
धवलभसितधूलीधारिणी भद्रकाली ॥ ९ ॥

जननमरणहारी सर्वलोकोपकारी
जवजनितविहारी चारुवक्षोजहारी ।
कनकगिरिविहारी कालगर्वोपहारी
घनफणिधरहारी कालिका पातु गौरी ॥ १० ॥

मलहरणमतङ्गी मन्त्रयन्त्रप्रसङ्गी
वलयित सुभुजाङ्गी वाङ्मयी मानसाङ्गी ।
विलयभयविहङ्गी विश्वतोरक्ष्यपाङ्गी
कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी ॥ ११ ॥

अम्ब त्वदङ्घ्र्यम्बुजतत्पराणां
मुखारविन्दे सरसं कवित्वं ।
करारविन्दे वरकल्पवल्ली
पदारविन्दे नृपमौलिराजः ॥ १२ ॥

पुरवैरिपत्नि मुरवैरिपूजिते
जलदालिवेणि फलदायके शिवे ।
सदयं ससम्पदुदयं कुरुष्व मां
जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३ ॥

विजयविभवधात्री विश्वकल्याणगात्री
मधुकरशुभवेणी मङ्गलावासवाणी ।
शतमुखविधिगीता शाम्भवी लोकमाता
करिरसमुखपार्श्वा कामकोटी सदाव्यात् ॥ १४ ॥

मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी
धरपतिवरकन्या धीरभूतेषु धन्या ।
मणिमयघनवीणामञ्जरीदिव्यबाणा
करिरिपुजयघोटी कामकोटीसहायी ॥ १५ ॥

अम्ब त्वदम्शोरणुरम्शुमाली
तवैव मन्दस्मितबिन्दुरिन्दुः ।
त्वया दृतं सल्लपितं त्रयी स्यात्
पुम्भावलीला पुरुषत्रयी हि ॥ १६ ॥

दुर्वेदनानुभवपावकधूयमाना
निर्वेदमेति नितरां कलना मदीया ।
पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे
सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७ ॥

यत्प्रभापटलपाटलं जग-
त्पद्मरागमणिमण्टपायते ।
पाशपाणिसृणिपाणिभावये
चापपाणि शरपाणि दैवतम् ॥ १८ ॥

ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व-
मष्टात्मता च फलमाश्रयिणामतीव ।
मुद्रां वहन् घनधिया वटमूलवासी
मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९ ॥

गेहं नाकति गर्वितं प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवना-
त्त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २० ॥

पातय वा पाताले स्नापय वा सकललोकसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१ ॥

आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।
तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करी कुरुते ॥ २२ ॥

मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनी ।
निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेम्बिके ॥ २३ ॥

रक्ताभामरुणाम्शुकाम्बरधरा-मानन्दपूर्णाननां
मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणां ।
देवीं दिव्यरसान्नपात्रकरणा-मम्भोजदर्वीकरां
ध्यायेशङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् ॥ २४ ॥

उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
मूले कल्पतरोः स्फुरन्मणिमये सिंहासने सुस्थिताम् ।
बिभ्राणां स्वशये सुवर्णचषकं बीजं च शाल्योद्भवं
भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेन्नपूर्णेश्वरीम् ॥ २५ ॥

वामे पायसपूर्ण हेमकलशं पाणौ वहन्ती मुदा
चान्ये पाणितले सुवर्णरचितां दर्वीं च भूषोज्वलाम् ।
अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा
श्यामा काचन शङ्कर प्रियतमा शातोदरी दृश्यते ॥ २६ ॥

करेणुचञ्चन्मणिकङ्कणेन दर्वीं दधानां धवलान्नपूर्णे ।
सदावलोके करुणालवालां काशीपुरीकल्पलतां भवानीम् ॥ २७ ॥

या माणिक्यमनोज्ञहारविधिना सिन्धूरभासान्विता
तारानायक शेखरा त्रिणयना पीन स्तनोद्भासिता ।
बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला
सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥

माणिक्यनूपुरविभूषितपादपद्मां
हस्तारविन्दकरुणारसपूर्णदर्वीं ।
सन्ध्यारुणाम्शुकधरां नवचन्द्रचूडां
मन्दस्मिते गिरिसुते भवतीं भजामि ॥ २९ ॥

स्मरेत्प्रथमपुष्पिणीं रुधिरपुष्टनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्ण नेत्राञ्चलां ।
करस्फुरितवल्लकीं कलितकम्बुताटङ्किनीं
घनस्तनभरोल्लसद्गलितचूलिकां श्यामलाम् ॥ ३० ॥

दाक्षायण्यवताराणां रक्षास्तोत्रं पठेन्नरः ।
साक्षाद्देवीपदं याति रक्षामाप्नोति भूतले ॥ ३१ ॥

इति श्री दाक्षायणी स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed