Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् ।
सर्वलोकप्रणेत्रीं च प्रणमामि सदाशिवाम् ॥ १ ॥
मङ्गलां शोभनां शुद्धां निष्कलां परमां कलाम् ।
विश्वेश्वरीं विश्वमातां चण्डिकां प्रणमाम्यहम् ॥ २ ॥
सर्वदेवमयीं देवीं सर्वरोगभयापहाम् ।
ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम् ॥ ३ ॥
विन्ध्यस्थां विन्ध्यनिलयां दिव्यस्थाननिवासिनीम् ।
योगिनीं योगमातां च चण्डिकां प्रणमाम्यहम् ॥ ४ ॥
ईशानमातरं देवीमीश्वरीमीश्वरप्रियाम् ।
प्रणतोऽस्मि सदा दुर्गां संसारार्णवतारिणीम् ॥ ५ ॥
य इदं पठते स्तोत्रं शृणुयाद्वापि यो नरः ।
स मुक्तः सर्वपापैस्तु मोदते दुर्गया सह ॥ ६ ॥
इति शिवरहस्ये श्री दुर्गा स्तोत्रम् ।
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.